ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः। प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत्
तमार्तनादं सहसा शुश्राव स महीपतिः। अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा
ततः प्रस्थापयामास किमेतदिति पार्थिवः। तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः। प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः। ऋत्विजा सहितो राजन्सहामात्य उपाविशत्
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्। नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता
इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो। पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम। यतमानासु सर्वासु किंनु दुःखमतः परम्
वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम। आसां प्राणाः समायत्ता मम चात्रैकपुत्रके
स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत्। महता लघुना वाऽपि कर्मणा दुष्करेण वा
अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्। यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत्। कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ। ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते
वपार्या हूयमानायां धूममाघ्राय मातरः। ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः। उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति
ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा। पुत्रकामतया सर्वंकरिष्यामि वचस्तव
ततः स याजयामास सोमकं तेन जन्तुना। मातरस्तु बलातपुत्रमपाकार्षुः कृपान्विताः
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः। तं मातरः प्त्यकर्षन्गृहीत्वा दक्षिणे करे
सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति। कुररीणामिवार्तानामपाकृष्य तु तं सुतम्
विशस्य चैनं विधिवद्वपामस्य जुहाव सः। वपायां हूयमानायां गन्धमाघ्राय मातरः
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन। सर्वाश्च गर्भानलबंस्ततस्ताः पार्थिवाङ्गनाः
ततो दशसु मासेषु सोमकस्य विशांपते। जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत्। स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे। तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि
ततः स लोकमगमत्सोमकस्य गुरुः परम्। अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम्
अथ तं नरके घोरे पच्यमानं ददर्श सः। तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्। त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्
एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत्। अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः
मत्कृते हि महाभागः पच्यते नरकाग्निना। `सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः
नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन। इमानि तव दृश्यन्ते फलानि वदतांवर