सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत। धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः। रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप। तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः
चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान्। शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता। विजिता शासनादेव सरत्नाकरपत्तना
तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम्। चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्
तेन पद्मसहस्राणि गवां दश महात्मना। ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना। वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्। शर्जन्निव महामेघः प्रमथ्य निहतः शरैः
प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना। तेनात्मतपसा लोकास्तापिताश्चातितेजसा
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः। यस्य पुण्यतमे देशे कुरुक्षेत्रेस्य मध्यतः
तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः। धर्मं कृत्वा महीं रक्ष स्वर्गलोकं गमिष्यसि
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत्। जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि
एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा। पप्रच्छानन्तरं भूयः सोमकं प्रति भारत
कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः। कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः। तस्य भार्याशतं राजन्सदृशीनामभूत्तदा
स वै यत्नेन महता तासु पुत्रं महीपतिः। कंचिन्नासादयामास कालेन महता ह्यपि
कदाचित्तस् वृद्धस्य यतमानस्य धीमतः। जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत
तं जातं मातरः सर्वाः परिवार्य समासते। सततं पृष्ठतः कृत्वा कामभोगान्विशांपते
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि। स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः। प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत्
तमार्तनादं सहसा शुश्राव स महीपतिः। अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा
ततः प्रस्थापयामास किमेतदिति पार्थिवः। तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः। प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः। ऋत्विजा सहितो राजन्सहामात्य उपाविशत्
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्। नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता
इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो। पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम। यतमानासु सर्वासु किंनु दुःखमतः परम्
वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम। आसां प्राणाः समायत्ता मम चात्रैकपुत्रके
स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत्। महता लघुना वाऽपि कर्मणा दुष्करेण वा