ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः। अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत्
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः। निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा
ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः। निस्तोयं तं च कलशं ददृशुः सर्व एव ते
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः। युवनाश्वो ममेत्येवं सत्यं समभिपद्यत
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा। सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्। पुत्रार्थं तव राजर्षे महाबलपराक्रम
महाबलो महावीर्यस्तपोबलसमन्वितः। यः शक्रमपि वीर्येण गमयेद्यमसादनम्
अनेन विधिना राजन्मयैतदुपपादितम्। अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था। नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः। आपस्त्वया महाराज मत्तपोवीर्यसंभृताः
ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि। विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्। `न च प्राणैर्महाराज वियोगस्ते भविष्यति
मा खिदस्त्वं हि राजेनद्र दैवं हि बलवत्तरम्'। गर्भधारणजं वाऽपि न खेदं समवाप्स्यसि
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः। वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः
निश्चक्राम महातेजा न च तं मृत्युराविशत्। युवनाश्वं नरपतिं तदद्भुतमिवाभवत्
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्। ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम्
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे। मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा। मांधातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः
प्रदेशिनीं शक्रदत्तामाखाद्य स शिशुस्तदा। अवर्धत महातेजाः किष्कून्राजंस्त्र्योदश
वेदास्तं सधनुर्वेदा दिव्यान्स्त्राणि चेश्वरम्। उपतस्थुर्महाराजं ध्यातमात्राणि सर्वशः
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये। अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः
सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत। धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः। रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप। तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः
चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान्। शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता। विजिता शासनादेव सरत्नाकरपत्तना
तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम्। चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्
तेन पद्मसहस्राणि गवां दश महात्मना। ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना। वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्। शर्जन्निव महामेघः प्रमथ्य निहतः शरैः
प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना। तेनात्मतपसा लोकास्तापिताश्चातितेजसा