इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते। यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन। सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर। यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः
इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः। मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः
एषा सा यमुना राजन्महर्षिगणसेविता। नानायज्ञचिता राजन्पुण्या पापभयापहा
अत्रराजा महेष्वासो मांधाताऽयजत स्वयम्। साहदेविश्च कौन्तेय सोमको ददतांवरः
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः। कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः
कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः। यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः। `सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युते। जन्म चाप्रतिवीर्यस् कुशलो ह्यसि भाषितुम्
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः। यथा मान्धातृशब्दो वै लोकेषु परिगीयते
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः। सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः
अश्वमेधसहस्रं च प्राप्य धर्मभृतांवरः। अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः
अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः। मन्त्रिष्वाधाय तद्राज्यं वनित्यो बभूव ह। शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान्
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः। पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः। इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्
संभृतो मन्त्रपूतेन वारिणा कलशो महान्। तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्। `तद्वारि विहितं राजन्यस्मिन्नासीत्सुसंस्कृतम्'। तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान्। शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः। तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा। नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः। अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत्
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः। निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा
ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः। निस्तोयं तं च कलशं ददृशुः सर्व एव ते
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः। युवनाश्वो ममेत्येवं सत्यं समभिपद्यत
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा। सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्। पुत्रार्थं तव राजर्षे महाबलपराक्रम
महाबलो महावीर्यस्तपोबलसमन्वितः। यः शक्रमपि वीर्येण गमयेद्यमसादनम्
अनेन विधिना राजन्मयैतदुपपादितम्। अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था। नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः। आपस्त्वया महाराज मत्तपोवीर्यसंभृताः