विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः। सुकन्यया सहारण्ये विजहारानुकूलया
तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते। अत्रत्वं सह सोदर्यैः पितृडन्देवांश्च तर्पय
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत। सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्
पुष्करेषु महाराज सर्वेषु च जलं स्पृश। स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत
संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च। अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः। अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने
आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम्। सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम्
चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर। एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते। वैखानसप्रभृतयो वालखिल्यास्तथैव च
शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च। सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश
शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः। नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप। स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ
इह नित्याश्रया देवाः पितरश्च महर्षिभिः। आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर
इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते। यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन। सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर। यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः
इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः। मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः
एषा सा यमुना राजन्महर्षिगणसेविता। नानायज्ञचिता राजन्पुण्या पापभयापहा
अत्रराजा महेष्वासो मांधाताऽयजत स्वयम्। साहदेविश्च कौन्तेय सोमको ददतांवरः
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः। कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः
कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः। यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः। `सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युते। जन्म चाप्रतिवीर्यस् कुशलो ह्यसि भाषितुम्
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः। यथा मान्धातृशब्दो वै लोकेषु परिगीयते
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः। सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः
अश्वमेधसहस्रं च प्राप्य धर्मभृतांवरः। अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः
अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः। मन्त्रिष्वाधाय तद्राज्यं वनित्यो बभूव ह। शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान्
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः। पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः। इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्
संभृतो मन्त्रपूतेन वारिणा कलशो महान्। तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्। `तद्वारि विहितं राजन्यस्मिन्नासीत्सुसंस्कृतम्'। तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान्। शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः। तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा। नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः