संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा। श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्। श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्
शृणु राजन्यथास्माकं येन तत्कथितं पुरा। समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव। विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ। सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः। तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च। एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्। श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः। पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः। मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः
उवाच च महीपालो दुःखशोकसमन्वितः। दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः। अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। निश्चितेयं मम मतिर्या च तां मे निबोधत। अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता। शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्। यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। संजिजीवयिषुं प्राप्तं राजानमपराजितम्
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्। भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा। पुरोहितमथाहूय ऋत्विजो वसुधाधिपः
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः। यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना।। तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्। सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। तं देशं मापयामासुर्यज्ञायतनकारणात्
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः। ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्। निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा। इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति