प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्। कारयामास शर्यातिर्यज्ञायतनमुत्तमम्
तत्रैनं च्यवनो राजन्याजयामास भार्गवः। अद्भुतानि च तत्रासन्यानि तानि निबोध मे
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा। तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम्
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः। भिषजौ दिवि देवानां कर्मणा तेन नार्हतः
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ। यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम्
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम्। अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ। लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः
एतदेव तदा वाक्यमाम्रेडयति वासवे। अनादृत्यततः शक्रं ग्रहं जग्राह भार्गवः
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा। समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्
आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम्। वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्यस भार्गवः। जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम्
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः। तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः
तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्। कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः
ततः कृत्याऽथ संजज्ञे मुनेस्तस्य तपोबलात्। मदो नाम महावीर्यो बृहत्कायो महासुरः
शरीरं यस् निर्देष्टुमशक्यं तु सुरासुरैः। तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत्
हनुरेका स्थिता त्वस्य भूमावेका दिवं गता। चतस्रश्चायता दंष्ट्रा योजनानां शतंशतम्
इतरे तस्य दशना बभूवुर्दशयोजनाः। प्रासादशिखराकाराः शूलाग्रसमदर्शनाः
बाहू परिघसंकाशावायतावयुतं समौ। नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसंनिभम्
लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया। व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात्
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत्। महता घोररूपेण लोकाञ्शब्देन नादयत्
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः। आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्
भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः। ततोऽव्रवीद्देवराजश्च्यवनं भयपीडितः
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव। भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे
न ते मिथ्या समारम्भो भवत्वेष परो विधिः। जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि
सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया। `तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव। सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति
अतो मयैतद्विहितं तव वीर्यप्रकाशनम्। तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः। स मन्युर्व्यगमच्छीघ्रं सुमोच च पुरंदरम्
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्। अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः
तदा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना। अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम्