सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्। निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम्
लब्ध्वा तु च्यवनो भार्यांवयोरूपं च वाञ्छितम्। हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः
यथाऽहं रूपसंपन्नो वयसा च समन्वितः। कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम्
तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ। मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम्
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः। च्यवनश्च सुकन्या च सुराविव विजह्रतुः
ततः श्रुत्वा तु शर्यातिर्वयस्थं च्यवनं कृतम्। सुहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम्
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव। रेमे सभार्यः शर्यातिः कृत्स्नां प्राप्य महीमिव
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः। उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्। याजयिष्यामि राजंस्त्वां संभारानुपकल्पय
ततः परमसंहृष्टः शर्यातिरवनीपतिः। च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत्
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्। कारयामास शर्यातिर्यज्ञायतनमुत्तमम्
तत्रैनं च्यवनो राजन्याजयामास भार्गवः। अद्भुतानि च तत्रासन्यानि तानि निबोध मे
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा। तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम्
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः। भिषजौ दिवि देवानां कर्मणा तेन नार्हतः
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ। यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम्
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम्। अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ। लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः
एतदेव तदा वाक्यमाम्रेडयति वासवे। अनादृत्यततः शक्रं ग्रहं जग्राह भार्गवः
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा। समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्
आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम्। वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्यस भार्गवः। जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम्
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः। तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः
तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्। कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः
ततः कृत्याऽथ संजज्ञे मुनेस्तस्य तपोबलात्। मदो नाम महावीर्यो बृहत्कायो महासुरः
शरीरं यस् निर्देष्टुमशक्यं तु सुरासुरैः। तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत्
हनुरेका स्थिता त्वस्य भूमावेका दिवं गता। चतस्रश्चायता दंष्ट्रा योजनानां शतंशतम्
इतरे तस्य दशना बभूवुर्दशयोजनाः। प्रासादशिखराकाराः शूलाग्रसमदर्शनाः
बाहू परिघसंकाशावायतावयुतं समौ। नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसंनिभम्
लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया। व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात्
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत्। महता घोररूपेण लोकाञ्शब्देन नादयत्