मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत्। खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात्
एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात्। तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम्
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः। अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा। अपमानादहं विद्धो ह्यनया दर्पपूर्णया
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्। तामेव प्रतिगृह्याहं राजन्दुहितरं तव। क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्। ददौ दुहितरं तस्मै च्यवनाय महात्मने
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह। प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत्
सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता। नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
अग्नीनामतीथीनां च शुश्रूषुनसूयिका। समाराधयत क्षिप्रं च्यवनं सा शुभानना
कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप। कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव। ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम्
कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च। इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ। शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च
नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता। साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु। कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने
भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा। न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि
अनाभरणसंपन्ना परमाम्बरवर्जिता। शोभयस्यधिकं भद्रे वनमप्यनलंकृता
सर्वाभरणसंपनना परमाम्वरधारिणी। शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्। त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्
असमर्थं परित्राणे पोषणे तु शुचिस्मिते। सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः। एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत्
रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम्। तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ
युवानं रूपसंपन्नं करिष्यावः पतिं तव। ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्। एतेन समयेनैनमामन्त्रय पतिं शुभे
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्। उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति। `सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत्
श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति'। ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह। अश्विनावपि तद्राजन्सरः प्राविशतां तदा
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः। दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः। तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे। अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि
त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि'। यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने