रूपेण वयसा चैव भदनेन मदेन च। बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः
तां सखीरहितामेकामेकवस्त्रामलंकृताम्। ददर्श भार्गवो धमांश्चरन्तीमिव विद्युतम्
तां पश्यमानो विजने स रेमे परमद्युतिः। क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः। तामाबभाषेकल्याणीं सा चास्य न शृणोति वै
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी। कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता। किंनु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने
अक्रुद्ध्यत्स तथा विद्धे नेत्रे परममन्युमान्। ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्
ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम्। तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः। केनापकृतमद्येह भार्गवस्य महात्मनः। ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूत माचिरम्
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्। सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्। पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमनुखार्दितम्। पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत्
मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत्। खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात्
एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात्। तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम्
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः। अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा। अपमानादहं विद्धो ह्यनया दर्पपूर्णया
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्। तामेव प्रतिगृह्याहं राजन्दुहितरं तव। क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्। ददौ दुहितरं तस्मै च्यवनाय महात्मने
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह। प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत्
सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता। नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
अग्नीनामतीथीनां च शुश्रूषुनसूयिका। समाराधयत क्षिप्रं च्यवनं सा शुभानना
कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप। कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव। ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम्
कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च। इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ। शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च
नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता। साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु। कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने
भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा। न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि
अनाभरणसंपन्ना परमाम्बरवर्जिता। शोभयस्यधिकं भद्रे वनमप्यनलंकृता
सर्वाभरणसंपनना परमाम्वरधारिणी। शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्। त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्
असमर्थं परित्राणे पोषणे तु शुचिस्मिते। सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः