चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः। तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः
सप्तैकैकस्ययूपस्य चषालाश्चोपरिश्थिताः। तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्। स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः। अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
प्रसङ्ख्यानानसङ्ख्येयान्प्रत्यगृह्णन्द्विजातयः
सिकता वा यथा लोके यथावा दिवि तारकाः। यथा वा वर्षतो धारा असङ्ख्येयाः स्म केनचित्
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः। सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु
भवेत्सङ्ख्येयमेतद्धि यदेतत्परिकीर्तितम्। न तस्य शक्याः सङ्ख्यातुं दक्षिणादक्षिणावतः
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा। ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्
अल्पावशेषा पृथिवी चैत्यैरासीत्समाचिता। गयस्य यजमानस्य तत्रतत्र विशांपते
स लोकान्प्राप्तवैनैन्द्रान्कर्मणा तेन भरत। सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत्
तरस्मात्त्वमत्र राजेनद्र भ्रातृभिः सहितोच्युत। उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह। वैदूर्यपर्वतं चैव नर्मदां च महानदीम्
उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः'। समागमत तेजस्वी भ्रातृभिः सहितो नघ
तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः। तीर्थानि रमणीयानि पुण्यान्यायतनानि च
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह। तत्रतत्राददद्वित्तं ब्राह्मणेभ्यः सहस्रशः
देवानामेति कौन्तेय तथा राज्ञां सलोकताम्। वेदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च। एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते
एष शर्यातियज्ञस्य देशस्तात प्रकाशते। साक्षाद्यत्रापिबत्सोममश्विभ्यां सह वासवः
चुकोप भार्गवश्चापि महेन्द्रस् महातपाः। संस्तम्भयामास च तं वासवं च्यवनः प्रभुः
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्। `नासत्यौ च महाभाग कृतवान्सोमपीथिवौ
कथं विष्टम्भितस्तेन भगवान्पाकशासनः। किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ। एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम
भृगोर्महर्षेः पुत्रोऽभूच्चयवनो नाम भारत। समीपे सरसस्तस्य तपस्तेपे महाद्युतिः
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव। अतिष्ठत चिरं कालमेकदेशे विशांपते
सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः। कालेन महता राजन्समाकीर्णः पिपीलिकैः
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः। तप्यते स्म तपो घोरं वल्मीकेन समावृतः
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः। आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः। एकैव च सुता सुभ्रूः सुकन्या नाम भारत
सा सखीभिः परिवृता दिव्याभरणभूषिता। चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत्
सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम्। वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता