[यदर्थमैच्छन्मनुजाः सुपुत्रं शिष्यं गुरुं चाप्रतिकूलवादम्। यदर्थमभ्युद्यतमुत्तमं त- त्करोति कर्माग्र्यमपारणीयम् ।।]
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै- र्विहत्य सर्वाणइ रणेऽभिभूय। कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथिताऽस्मि राम
खङ्गेन चाहं निशितेन सङ्ख्ये कायाच्छिरस्तस्य बलात्प्रमत्य। ततोऽस् सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूश्च सर्वान्
आत्तायुधं मामिह रौहिणएय पश्यन्तु भैमा युधि जातहर्षाः। निघ्नन्तमेकं कुरुयोधमुख्या- नग्निं महाकक्षमिवान्तकाले
प्रद्युम्नमुक्तान्निशितान्न शक्ताः। सोढुं कृपद्रोणविकर्णकर्णाः। जानासि पीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येव यथा रणस्थः
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य। न विद्यतेजाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम्। `हतः स पापो युधि केवलेन युद्धेऽद्वितीयो हरितुल्यवीर्यः
वृत्तोरुरत्यायतपीनबाहु- रेतेन सङ्ख्ये निहतोऽश्वचक्रः। को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात्
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत। तथा प्रविश्यान्तरमस्य सङ्ख्ये को नाम जीवन्पुनराव्रजेच्च
द्रोणं कच भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम्। सर्वाणइ सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः
किंनाम लोकेषु विषह्ममस्ति- कृष्णस्य सर्वेषु सदेवकेषु। आत्तायुधस्योत्तमबाणपाणे- श्चक्रायुधस्याप्रतिमस्य युद्धे
ततो निरुद्धोऽप्यसिचर्मपाणि- र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः। हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु
गदोल्मुकौ बाहुकभानुनीथाः शूरश्र सङ्ख्ये निशठः कुमारः। रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म
सवृष्णिभोजान्धकयोधमुख्या समागता सात्वतशूरसेना। हत्वा रणे तान्धृतराष्ट्रपुत्रा- न्लोके यशः स्फीतमुपाकरोतु
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतांवरिष्ठः। युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन
अस्मत्प्रमुक्तैर्विशिखैर्जितारि- स्ततो महीं भोक्ष्यति धर्मराजः। निर्धार्तराष्ट्रां हतसूतपुत्रा- मेतद्धि नः कृत्यतमं यशस्यम्
असंशयं माधव सत्यमेत- द्गृह्णीम ते वाक्यमदीनसत्व। स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित्
न ह्येष कामान्न भयान्न लोभा- द्युधिष्ठिरो जातु जह्यात्स्वधर्मम्। भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा द्रुपदात्मजेयम्
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च। कस्मान्न कृत्स्नां पृथिवीं प्रशासे- न्माद्रीसुताभ्यां च पुरस्कृतोऽयम्
यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च। युध्येम विक्रम्य रणे समेता- स्तदैव सर्वे रिपवो हि न स्युः
नेदं चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम्। कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत्
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य। तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च
प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोस्मि नाथैर्नरलोकनाथैः। धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टाऽस्मि भूयः सुखिनः समेतान्
तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान्। यदुप्रवीराः स्वगृहाणि जग्मु- स्ते चापि तीर्थान्यमुसंविचेरुः
विसृज्य वृष्णीननु धर्मराजौ विदर्भराजोपचितां सुतीर्थाम्। जगाम पुण्यां सरितं पयोष्णीं सभ्रातृभृत्यः सह लोमशेन
सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोध्युवास। द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानः स्तुतिभिर्वराभिः
गयेन यजमानेन सोमेनेह पुरंदरः। तर्पित श्रूयते राजन्स तृप्तो मुदमभ्यगात्
इह देवैः सहेन्द्रैश्च प्रजापतिभिरेव च। इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः
आधूर्तरजसश्चेह राजा वज्रधरं प्रभुः। तर्पयामास सोमेन हयमेधेषु सप्तसु
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्ययम्। वानप्रस्थं च भौमं च यद्द्रव्यं नियतं मखे