श्रुत्वा तु ते तस्य वचः प्रतीता- स्तांश्चापि दृष्ट्वा सुकृशनतीव। नेत्रोद्भवं संमुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः
प्रभासतीर्थमासाद्यपाण्डवा वृष्णयस्तथा। किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः। वृष्णयः पाण्डवाश्चैव सुहृदश्चपरस्परम्
प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः। वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे
ततो गोक्षीरकुन्देन्दुमृणआलरजतप्रभः। वनमाली हली रामो बभाषे पुष्करेक्षणम्
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय। युधिष्ठिरो यत्रजटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति। धर्मादधर्मश्चरितो वरीया- नितीव मन्येत नरोऽल्पबुद्धिः
शङ्का मिथः संजनिता नराणाम्
अयं स धर्मप्रभवो नरेन्द्रो धर्मे धृतः सत्यधृतिः प्रदाता। चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत्
कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः। प्रव्राज्य पार्थान्सुमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान्
किंनाम वक्ष्यत्यवनिप्रधानः पितृडन्समागम्य परत्र पापः। पुत्रेषु सम्यक्वरितं मयेति पुत्रानपापान्व्यपरोप्य राज्यात्
नासौ धिया संप्रति पश्यति स्म किंनाम कृत्वाऽहमचक्षुरेवम्। जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्यकौन्तेयमिति स्म राज्यात्
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान्। विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं वत पश्यति स्म
व्यूढोत्तरांसान्पृथुलोहिताक्षा- निमाम्स्म पृच्छन्स शृणोति नूनम्। प्रास्थापयद्यत्स वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम्
योऽयं परषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात्। श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम्
स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः। वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे
न ह्यस् वीर्येण बलेन कश्चि- त्समः पृथिव्यामपि विद्यतेऽन्यः। स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात्
प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु। स्वस्त्यागमद्योऽतिरथस्तरस्वी सोयं वने क्लिश्यति चीरवासाः
यः सिन्धुकूले व्यजयन्नृदेवा- न्समागतान्दाक्षिणात्यान्महीपान्। तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम्
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रत्नियुद्धशौण्डः। जिग्ये रणे तं नकुलं वनेऽस्मि- न्संपश्यतैनं मलदिग्धगात्रम्
सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या। सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा
त्रिवर्गमुख्यस् समीरणस्य देवेश्वरस्याप्यथवाऽश्विनोश्च। एषां सुराणां तनयाः कथंनु वने चरन्त्यस्तसुखाः सुखार्हाः
जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते। दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला
न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे। समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित्
ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारन्ते। तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः
येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके। रते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति
कस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ। वसन्त्यरण्ये सह सोदरीयै- स्त्रैलोक्यनाथानभिगम्य पार्थाः
निर्यातु साध्यद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा। यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ह्गधन्वा। स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः
भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः। तदर्थमेको हि य उद्यमन्वै करोति कर्णोऽस्त्रमवारणीयम्