सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथाऽन्ये। पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि
तेषूपवासान्विबुधानुपोष्य दुत्त्वा च रत्नानि महान्ति राजा। तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम
स तेन तीरेण तु सागरस्य पुनः प्रयातः सह सोदरीयैः। द्विजैः पृथिव्यां प्रथितं महद्भि- स्तीर्थं प्रभासं समुपाजगाम
तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च। संतर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन
कस द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाऽभिषेकम्। समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतांवरिष्ठः
तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च। तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम्
ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान्। अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादान्
ततः स रामं च जनार्दनं च कार्ष्णि च साम्बं च शिनेश्च पौत्रम्। अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्वः
ते चापि सर्वान्प्रतिपूज्य पार्थां- स्तैः सत्कृताः पाण्डुसुतैस्तथैव। युधिष्ठिरं संपरिवार्य राज- न्नुपाविशन्देवगणा यथेन्द्रम्
तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः। अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजसूनुम्
श्रुत्वा तु ते तस्य वचः प्रतीता- स्तांश्चापि दृष्ट्वा सुकृशनतीव। नेत्रोद्भवं संमुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः
प्रभासतीर्थमासाद्यपाण्डवा वृष्णयस्तथा। किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः। वृष्णयः पाण्डवाश्चैव सुहृदश्चपरस्परम्
प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः। वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे
ततो गोक्षीरकुन्देन्दुमृणआलरजतप्रभः। वनमाली हली रामो बभाषे पुष्करेक्षणम्
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय। युधिष्ठिरो यत्रजटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति। धर्मादधर्मश्चरितो वरीया- नितीव मन्येत नरोऽल्पबुद्धिः
शङ्का मिथः संजनिता नराणाम्
अयं स धर्मप्रभवो नरेन्द्रो धर्मे धृतः सत्यधृतिः प्रदाता। चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत्
कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः। प्रव्राज्य पार्थान्सुमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान्
किंनाम वक्ष्यत्यवनिप्रधानः पितृडन्समागम्य परत्र पापः। पुत्रेषु सम्यक्वरितं मयेति पुत्रानपापान्व्यपरोप्य राज्यात्
नासौ धिया संप्रति पश्यति स्म किंनाम कृत्वाऽहमचक्षुरेवम्। जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्यकौन्तेयमिति स्म राज्यात्
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान्। विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं वत पश्यति स्म
व्यूढोत्तरांसान्पृथुलोहिताक्षा- निमाम्स्म पृच्छन्स शृणोति नूनम्। प्रास्थापयद्यत्स वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम्
योऽयं परषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात्। श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम्
स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः। वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे
न ह्यस् वीर्येण बलेन कश्चि- त्समः पृथिव्यामपि विद्यतेऽन्यः। स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात्
प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु। स्वस्त्यागमद्योऽतिरथस्तरस्वी सोयं वने क्लिश्यति चीरवासाः
यः सिन्धुकूले व्यजयन्नृदेवा- न्समागतान्दाक्षिणात्यान्महीपान्। तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम्
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रत्नियुद्धशौण्डः। जिग्ये रणे तं नकुलं वनेऽस्मि- न्संपश्यतैनं मलदिग्धगात्रम्