तमाश्रमपदं प्राप्तमृषिरर्ध्यात्समार्चयत्। स युद्धमदसंमत्तो नाभ्यनन्दत्तथाऽर्चनम्
प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्ततोबलात्। जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान्
आगताय च रामाय तदाचष्ट पिता स्वयम्। गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्। स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत्
तस्याथ युधि विक्रम्य भार्गवः परवीरहा। चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान्
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः। अभिभूतः स रामेण संयुक्तः कालधर्मणा
अर्जुनस्याथ दायादा रामेण कृतमन्यवः। आश्रमस्थं विना रामं जमदग्निमुपाद्रवन्
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्। असकृद्रामरामेति विक्रोशन्तमनाथवत्
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर। घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः
अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते। समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः
स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम्। अनर्हं तं तथाभूतं विललाप सुदुःखितः
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः। कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे। मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः
किंनु तैर्न कृतंपापं यैर्बवांस्तपसि स्तितः। अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः
किंनु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च। अयुध्यमानं धर्मज्ञमेकं हत्वाऽनपत्रपाः
लालप्यैवं सकुस्न्णं बहु नानाविधं नृप। प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः
ददाह पितरं चाग्नौ रामः परपुरंजयः। प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत
संक्रुद्धोऽतिबलः सङ्ख्ये शस्त्रमादाय वीर्यवान्। जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ। तांश्च सर्वानवामृद्गाद्रामः प्रहरतांवरः
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रियां प्रभुः। समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः। साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत्
ततो यज्ञेन महता जामदग्न्यः प्रतापवान्। तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम्
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने। दशव्यामायतां कृत्वा नवोत्सेधां विशांपते
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा। व्यभजंस्ते तदा राजन्प्रख्याताः खाण्डवायनाः
स प्रदाय महीं तस्मै कश्यपाय महात्मने। `तपः सुमहदास्थाय महाबलपराक्रमः'। अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः। पृथिवी चापि विजिता रामेणामिततेजसा
ततश्चतुर्दशीं रामः समयेन महामनाः। दर्शयामास तान्विप्रान्धर्मराजं ज सानुजम्
स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः। द्विजानां च परां पूजां चक्रे नृपतिसत्तमः
अर्जित्वा जामदग्न्यं स पूजितस्तेन चोदितः। महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः
गच्छन्स तीर्थानि महानुभावः। पुण्यानि रम्याणि ददर्श राजा। सर्वाणि वैप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरम्य
स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः। समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः