प्राशितव्यं प्रयत्नेन तेत्युक्त्वाऽदर्शनं गतः। आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम्
ततः पुन स भगवान्काले बहुतिथे गते। दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः
अथोवाच महातेजा भृगुः सत्यवतीं श्नुषाम्
उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम्। विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्। भविष्यति महावीर्यः साधूनां मार्गमास्थितः
ततः प्रसादयामास श्वशुरं सा पुनःपुनः। न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता। क्रालं प्रतीक्षती गर्भं धारयामास यत्नतः
जमदग्निं ततः पुत्रं जज्ञे सा काल आगते। तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम्
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च। बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ। चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्
स वेदाध्ययने युक्तो जमदग्निर्महातपाः। तपस्तेपे ततो देवान्नियमाद्वशमानयत्
स प्रसेनजितं राजन्नधिगम्य नराधिपम्। रेणुकां वरयामास स च तस्मै ददौ नृपः
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः। आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः। सर्वेषामजघन्यस्तु राम आसीञ्जघन्यजः
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै। रेणुका स्नातुमगमत्कदाचिन्नियतव्रता
सा तु चित्ररथं नाम मार्तिकावतकं नृपम्। ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्। ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका
व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना। `अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे
उतीर्य चापि सा यत्नाज्जगाम भरतर्षभ'। प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत
स तां दृष्ट्वाच्युतांधैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्। श्रिक्शब्देन महातेजा गर्हयामास वीर्यवान्
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः। आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्। न च ते जातसंमोहाः किंचिदूचुर्विचेतसः
ततः शशाप तान्क्रोधात्ते शप्ताश्चैतनां जहुः। मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः
ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा। तमुवाच महामन्युर्जमदग्निर्महातपाः
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः। तत आदाय परशुं रामो मातु शिरोऽहरत्
ततस्तस्य महाराज जमदग्नेर्महात्मनः। कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम्
ममेदं वचनात्तात कृतं ते कर्म दुष्करम्। वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै। पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत। ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो। अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत