ततस्तु भगवान्देवः शक्रेण सहितस्तदा। कार्तवीर्यविनाशार्थं मन्त्रयामास भारत
यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम्। संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः। जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम्
एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः।] कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः। गाधीति विश्रुतो लोके वनवासं जगाम ह
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा। ऋचीको भार्गवस्तां च वरयामास भारत
तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम्। उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम्
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम
न चापि भगवान्वाच्योदीयतामिति भार्गव। देया मे दुहिता चैव त्वद्विधाय महात्मने
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते
ददास्यश्वसहस्रं मे तव भार्या सुताऽस्तु मे
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्। एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम्
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा। तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा। ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा
लब्धं हयसहस्रं तु तां च दृष्ट्वा दिवौकसः। `विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन्
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः। यथाकामं यथाजोषं तया रेमे सुमध्यया
तं विवाहे कृतेराजन्सभार्यमवलोककः। आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च
भार्यापती तमासीनं भृगुं सुरगणार्चितम्। अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत्। वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम्
सा वै प्रसादयाभास तं गुरुं पुत्रकारणात्। आत्मनश्चैव मातुश्च प्रसादं च चकार सः
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै। आलिङ्गेतां पृथग्वृक्षौ साऽस्वत्थं त्वमुदुम्बरम्
चरुद्वयमिदं भद्रे जनन्याश्च तवैव च। विश्वमावर्तयित्वा तु मया यत्नेन साधितम्
प्राशितव्यं प्रयत्नेन तेत्युक्त्वाऽदर्शनं गतः। आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम्
ततः पुन स भगवान्काले बहुतिथे गते। दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः
अथोवाच महातेजा भृगुः सत्यवतीं श्नुषाम्
उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम्। विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्। भविष्यति महावीर्यः साधूनां मार्गमास्थितः
ततः प्रसादयामास श्वशुरं सा पुनःपुनः। न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता। क्रालं प्रतीक्षती गर्भं धारयामास यत्नतः
जमदग्निं ततः पुत्रं जज्ञे सा काल आगते। तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम्
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च। बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ। चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्