अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः। एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाऽधिरोह
अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः। एवं ब्रुवन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम्
अन्यथा हि कुरुश्रेष्ठ देवयोनिरपांपतिः। कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः
ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरमभ्यगच्छत्। कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः। तापसानां परं चक्रे सत्कारं भ्रातृभिः सह
लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान्। भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान्
तान्समेत्य सा राजर्षिरभिवाद्य कृताञ्जलिः। रामस्यानुचरं वीरमपृच्छदकृतव्रणम्
कदा नु रामो भगवांस्तापसो दर्शयिष्यति। तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम्
आयानेवासि विदितो रामस्य विदितात्मनः। प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः। अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी
भवाननुगतो रामं जामदग्न्यं महाबलम्। प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः
स भवान्कथयत्वद्य यथा रामेण निर्जिताः। आहवे क्षत्रियाः सर्वे कथं केन च हेतुना
[हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। भृगूणां राजशार्दूल वंशे जातस्य भारत
रामस्य जामदग्न्यस्य चरितं देवसंमितम्। हैहयाधिपतेश्चैव कार्तवीर्यस् भारत
रामेण चार्जुनो नाम हैहयाधिपतिर्हतिः। तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव
दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा। ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते
अव्घाहतगतिश्चैव रथस्तस्य महात्मनः। रथेन तेन तु सदावरदानेन वीर्यवान्
ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः। भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः
ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः। देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम्। भगवन्भूतरार्थमर्जुनं जहि वै प्रभो
विमानेन च दिव्येन हैहयाधिपतिः प्रभुः। शचीसहायं क्रीडन्तं धर्षयामास वासवम्
ततस्तु भगवान्देवः शक्रेण सहितस्तदा। कार्तवीर्यविनाशार्थं मन्त्रयामास भारत
यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम्। संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः। जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम्
एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः।] कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः। गाधीति विश्रुतो लोके वनवासं जगाम ह
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा। ऋचीको भार्गवस्तां च वरयामास भारत
तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम्। उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम्
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम
न चापि भगवान्वाच्योदीयतामिति भार्गव। देया मे दुहिता चैव त्वद्विधाय महात्मने
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते
ददास्यश्वसहस्रं मे तव भार्या सुताऽस्तु मे
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्। एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम्