शशापाथ महातेजाः पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव
अनागसि गुरौ यो मे मृतं सर्पवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः। सप्तरात्रादितः पापं पश्य मे तपसो बलम्
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः। शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः। शप्तोऽसि मम पुत्रेण यत्तो भव महीपते
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति। श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्। ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत। तं ददर्शाथ नागेन्द्रस्तक्षकः [https://vedastudy.wixsite.com/puranastudy/%E0%A4%A4%E0%A4%95-%E0%A4%B7%E0%A4%95 तक्षकोपरि टिप्पणी] काश्यपं तदा
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्। क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज। तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्। मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि। अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः। काश्यपश्च ततो राजन्नजीवयत तं नगम्
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः। स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्। गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ
स एवमुक्तो नागेन काश्यपो द्विपदां वरः। लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना। ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम। अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्। अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्
एतस्मिन्नेव काले तु स राजा जनमेजयः। उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ। आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै। नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्
चिन्तयामास पापात्मा मनसा पन्नगाधमः। दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति
तक्षकः संहतविषो लोके यास्यति हास्यताम्। विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्। एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने