हृते पशौ तदा देवास्तमूचुर्भरतर्षभ। मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः
स्वयं यज्ञेश्वरो भूत्वा कर्मणां फलदायकः। यज्ञं विहन्तुं भगवान्नार्हसे जगदीश्वर
इतिकल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्। इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्। तत्रानुवंशो रुद्रस्यतं निबोध युधिष्ठिर
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्। देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्
इमां गाथामत्र गायन्नपः स्पृशति यो नरः। देवयानोऽस्य पन्थाश्च चक्षुषाऽभिप्रकाशते
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा। अवतीर्य महाभागास्तर्पयांचक्रिरे पितृन्
उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात्। मानुषादस्मि विषयादपेतः पश्य लोमश
सर्वाल्लोँकान्प्रपश्यामि प्रसादात्तव सुव्रत। वैखानसानां जपतामेष शब्दो महात्मनाम्
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर। यत्रध्वनिं शृणोष्येनं तूष्णीमास्स्व विशांपते
एतत्स्वयंभुवो राजन्वनं दिव्यं प्रकाशते। यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान्
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने। सपर्वतवनोद्देशा दक्षिणार्थे स्वयंभुवा
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा। उवाच चापि कुपिता लोकश्वरमिदं प्रभुम्
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि। प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम्
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः। प्रसादयांबभूवाथ ततो भूमिं विशांपते
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव। पुनरुन्नह्य सलिलाद्देदीरूपास्थिता बभौ
सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा। आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि
सैषा सागरमास्राद्य राजन्वेदी समाश्रिता। एतामारुह्य भद्रं ते त्वमेकस्तर सागरम्
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोहसेऽद्य। स्पृष्टा हि मर्त्येन ततः समुद्र- मेषा वेदी प्रविशत्याजमीढ
ओंनमो विश्वगुप्ताय नमो विश्वपराय ते। सान्निध्यं कुरु देवेश सागरे लवणाम्भसि
अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः। एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाऽधिरोह
अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः। एवं ब्रुवन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम्
अन्यथा हि कुरुश्रेष्ठ देवयोनिरपांपतिः। कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः
ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरमभ्यगच्छत्। कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः। तापसानां परं चक्रे सत्कारं भ्रातृभिः सह
लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान्। भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान्
तान्समेत्य सा राजर्षिरभिवाद्य कृताञ्जलिः। रामस्यानुचरं वीरमपृच्छदकृतव्रणम्
कदा नु रामो भगवांस्तापसो दर्शयिष्यति। तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम्
आयानेवासि विदितो रामस्य विदितात्मनः। प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः। अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी