स क्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च। किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः
अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलं गृहीत्वा। अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः
ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम्। जगाम चम्पां प्रतिधक्ष्यमाण- स्तमङ्गराजं सपुरं सराष्ट्रम्
स वै श्रान्तः क्षुधितः काश्यपस्ता- न्घोषान्समासादितवान्समृद्धान्। गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र
अवाप्य सत्कारमतीव हृष्टः प्रोवाच कस्य प्रथिताः स्थ गोपाः। ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य
देशेषु देशेषु स पूज्यमान- स्तांश्चैव शृण्वन्मधुरान्प्रलापान्। प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम्
स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम्। शान्तां स्नुषां चैव ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव
ग्रामां श्च घोषांश्च सुतस्य दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः। चकार तस्यैव परं प्रसादं विभाण्डको भूमिपतेर्नरेद्र
स तत्रनिक्षिप्य सुतं महर्षि- रुवाच सूर्याग्निसमप्रभावः। जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव। शान्ता चैनं पर्यचरन्नरेन्द्र स्वे रोहिणी सोममिवानुकूला
अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वा यथा ह्यगस्त्यम्। नलस्य वै दमयन्ती यथा भू द्यथा शची वज्रधरस्य चैव
प्रीत्या युक्ता पर्यचरन्नरेन्द्र
तस्याश्रमः पुण्य एषोऽवभाति महाह्रदं शोभयन्पुण्यकीर्तिः। अत्रस्नातः कृतकृत्यो विशुद्ध- स्तीर्थान्यन्यान्यनुसंयाहि राजन्
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय। आनुपूर्व्येण सर्वाणि जगामायतनान्यथ
स सागरं समासाद्य गङ्गायाः संगमे नृप। नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्
ततः समुद्रतीरेण जगाम वसुधाधिपः। भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी। यत्रायजत धर्मोपि देवाञ्शरणमेत्य वै
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्। उत्तरं तीरमेतद्धि सततं द्विजसेवितम्
समेन देवयानेन पथा स्वर्गमुपेयुषः। अत्रवै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे। पशुमादाय राजेन्द्र भागोयमिति चाब्रवीत्
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ। मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः
स्वयं यज्ञेश्वरो भूत्वा कर्मणां फलदायकः। यज्ञं विहन्तुं भगवान्नार्हसे जगदीश्वर
इतिकल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्। इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्। तत्रानुवंशो रुद्रस्यतं निबोध युधिष्ठिर
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्। देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्
इमां गाथामत्र गायन्नपः स्पृशति यो नरः। देवयानोऽस्य पन्थाश्च चक्षुषाऽभिप्रकाशते
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा। अवतीर्य महाभागास्तर्पयांचक्रिरे पितृन्
उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात्। मानुषादस्मि विषयादपेतः पश्य लोमश
सर्वाल्लोँकान्प्रपश्यामि प्रसादात्तव सुव्रत। वैखानसानां जपतामेष शब्दो महात्मनाम्
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर। यत्रध्वनिं शृणोष्येनं तूष्णीमास्स्व विशांपते