स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्रम्। वक्रेण वक्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम्
न चापि पाद्यं बहुमन्यतेऽसौ फलानि चेमानि मया हृतानि। एवंव्रतोस्मीति च मामवोच- त्फलानि चान्यानि नवान्यदान्मे
मयोपयुक्तानि फलानि यानि नेमानि तुल्यानि रसेन तेषाम्। न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम्
तोयानि चैवातिरसानि मह्यं प्रादात्म वै पातुमुदाररूपः। पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत्
इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः। यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः
गतेन तेनास्मिकृतो विचेता गात्रं च मे संपरिदह्यतीव। इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम्
गच्छामि तस्यान्तिकमेव तात का नाम सा ब्रह्मचर्या च तस्य। इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्यार्यधर्मा
चर्तुं तथेच्छा हृदये ममास्ति दुनोति चित्तं यदि तं न पश्ये
रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन। अतुल्यवीर्याण्यभिरूपवन्ति विघ्रं सदा तपसश्चिन्तयन्ति
सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः। सुखाच्च लोकाच्च निपातयन्ति तान्युग्ररूपाणि मुनीन्वनेषु
न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथंचित्। कृत्वा विघ्रनं तापसानां रमन्ते पापाचारास्तापसस्तान्न पश्येत्
असज्जनेनाचरितानि पुत्र पानान्यपेयानि मधूनि तानि। माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति
रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयांबभूव। नासादयामास यदा त्र्यहेण तदा स पर्याववृते श्रमाय
यदा पुन काश्यपो वै जगाम फलान्याहर्तुं विधिनाश्रमेऽसौ। तदा पुनर्लोभयितुं जगाम सा वेशायोषा मुनिमृश्यशृह्गम्
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः संभ्रान्तरूपोऽभ्यपतत्तदानीम्। प्रोवाच चैनां भवतः श्रमाय गच्छाव यावन्न पिता ममैति
ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य वेगेन विमुच्य नावम्। प्रलोभयन्त्यो विविधैरुपायै- राजग्मुरङ्गाधिपतेः समीपम्
संस्थाप्यतामाश्रमदर्शने तु संतारितां नावमथातिशुभ्राम्। तीरादुपादाय तथैव चक्रे राजाश्रमं नाम वनं विचित्रम्
अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम्। ददर्श मेघैः सहसा प्रवृष्ट- मापूर्यणाणं च जगज्जलेन
स रोमपाद परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम्। क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च
विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान्। समादिशत्पुत्रगृद्धी महर्षि- र्विभाण्डकः परिपृच्छेद्यदा वः
स क्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च। किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः
अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलं गृहीत्वा। अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः
ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम्। जगाम चम्पां प्रतिधक्ष्यमाण- स्तमङ्गराजं सपुरं सराष्ट्रम्
स वै श्रान्तः क्षुधितः काश्यपस्ता- न्घोषान्समासादितवान्समृद्धान्। गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र
अवाप्य सत्कारमतीव हृष्टः प्रोवाच कस्य प्रथिताः स्थ गोपाः। ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य
देशेषु देशेषु स पूज्यमान- स्तांश्चैव शृण्वन्मधुरान्प्रलापान्। प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम्
स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम्। शान्तां स्नुषां चैव ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव
ग्रामां श्च घोषांश्च सुतस्य दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः। चकार तस्यैव परं प्रसादं विभाण्डको भूमिपतेर्नरेद्र
स तत्रनिक्षिप्य सुतं महर्षि- रुवाच सूर्याग्निसमप्रभावः। जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव। शान्ता चैनं पर्यचरन्नरेन्द्र स्वे रोहिणी सोममिवानुकूला