सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ। आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्
कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम्। कच्चिद्भवान्रमते चाश्रेऽस्मिं- स्त्वां वै द्रष्टुं सांप्रतमागतास्मि
कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः। कच्चित्त्वया प्रीयतेचैव विप्र कच्चित्स्वाध्यायः क्रियते चर्श्यशृङ्गः
ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम्। पाद्यं वै ते संप्रदास्यामि कामा- द्यथाधर्मं फलमूलानि चैव
कौश्यां बृस्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखाय। क्व चाश्रमस्तव किं नाम चेदं व्रतंब्रह्मंश्चरसि हि देववत्त्वम्
ममाश्रमः काश्यपपुत्र रम्य- स्त्रियोजनं शैलमिमं परेण। तत्रस्वधर्मोऽनभिवादनं नो न चोदकं पाद्यमुपस्पृशामः
भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया। व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया
फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव। करूषकानीङ्गुदधन्वनानि प्रियालानां काङ्क्षितं वै कुरुष्व
सा तानि सर्वाणि विसर्जयित्वा भक्ष्याण्यनर्हाणि ददौ ततोऽस्मै। तान्यृश्यशृङ्गाय महारसानि भृशं सुरूपाणि च मोदकानि
ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति। पेयानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव
सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव। गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम्
सर्जानशोकांस्तिलकांश्च वृक्षा- न्सुपुष्पितानवनाम्यावभज्य। विलज्जमानेव मदाभिभूता प्रोभयामास सुतं महर्षेः
अथर्श्यशृङ्गं विकृतंसमीक्ष्य पुनः पुनः पीञ्य च कायमस्य। अवेक्ष्यमाणा शनकैर्जगाम कृत्वाऽग्निहोत्रस्य तदाऽपदेशम्
तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः। तामेव भावेन गतेन शून्ये विनिःश्वसन्नार्तरूपो बभूव
ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरानखाग्रात्। स्वाध्यायवान्वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत्
सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम्। विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्कः पुत्रमुवाच दीनम्
न कल्पिताः समिधः किंनु तात कच्चिद्धुतं चाग्निहोऽत्रं त्वयाऽद्य। `न संसृष्टं क्रियते द्वारभागे सुवृक्षाणा खण्डने कः प्रवृत्तः
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्साद्यकृता त्वया च। `कोप्यागतः शुश्रूषणायेह पुत्र कुतश्चित्रं माल्यमिदं प्रवृद्धम्
न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च। दीनोतिमात्रं किमिवाद्य खिन्नः पृच्छामि त्वां क इहाद्यागतोऽभूत्
इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी। सुवर्णवर्णः कमलायताक्षः सुतः सुराणामवि शोभमानः
समृद्धरूपः सवितेव दीप्तः सुश्लक्ष्णवाक्कृष्णतारश्चकोरात्। नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः
आधारभूतः पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे। द्वौ चास् पिण्डावधरेण कण्ठा- दजातरोमौ सुमनोहरौ च
विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा। तथाऽस् चीरान्तरतः प्रभाति हिरण्मयी मेखला मे यथेयम्
अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः संप्रभाति। पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम्
विचेष्टमानस्य च तस्य तानि कूजन्ति हंसाः सरसीव मत्ताः। चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति
वक्रं च तस्याद्भुतदर्सनीयं प्रव्याहृतं ह्लादयतीव चेतः। पिंस्कोकिलस्येव च तस्य वाणि तां शृण्वतो मे व्यथितोऽन्तरात्मा
यथा वनं माधवमासिमध्ये समीरीतं श्वसनेनेव भाति। तथा स भात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात
सुसंवताश्चापि जटा विभक्ता द्वैधीकृता भातिललाटदेशे। कर्णौ च चित्रैरिव चक्रवाकैः समावृतौ तस्य सुरूपवद्भिः
तथा फलं वृत्तमथो विचित्रं समाहतं पाणिना दक्षिणेन। तद्भूमिमासाद्य पुनःपुनश्च समुत्पतत्यद्भुतरूपमुच्चैः
तच्चाभिहत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णम्। तं प्रेक्षतः पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता