न बुबोध च तं राजा मौनव्रतधरं मुनिम्। स तं क्रोधसमाविष्टो धर्षयामास ते पिता
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्। तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम
न चोवाच स मेधावी तमथो साध्वसाधु वा। तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्। मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः
ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह। सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा। मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्। तपस्विनमतीवाथ तं मुनिप्रवरं नृप
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्। तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा
शुभाचारं शुभकथं सुस्थितं तमलोलुपम्। अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। शरण्यं सर्वभूतानां पित्रा विनिकृतं तव
शशापाथ महातेजाः पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव
अनागसि गुरौ यो मे मृतं सर्पवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः। सप्तरात्रादितः पापं पश्य मे तपसो बलम्
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः। शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः। शप्तोऽसि मम पुत्रेण यत्तो भव महीपते
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति। श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्। ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत। तं ददर्शाथ नागेन्द्रस्तक्षकः [https://vedastudy.wixsite.com/puranastudy/%E0%A4%A4%E0%A4%95-%E0%A4%B7%E0%A4%95 तक्षकोपरि टिप्पणी] काश्यपं तदा
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्। क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज। तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्। मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि। अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः। काश्यपश्च ततो राजन्नजीवयत तं नगम्
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः। स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्। गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ
स एवमुक्तो नागेन काश्यपो द्विपदां वरः। लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्