महाह्रदं समासाद्य काश्यपस्तपसि स्थितः। दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसंमितः
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम्। अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा। सह तोयेन तृषिता गर्भिणी चाभवत्ततः
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा। देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्। तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः। ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः। तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः। तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप
एतस्मिन्नेव काले तु सखा दशरशस्य वै। कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत्
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः। `दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत'। स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम
पुरोहितापचाराच्च तस्य राज्ञो यदच्छया। न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः। प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते
कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम्। तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः
तत्र त्वेको रमुनिवरस्तं राजानमुवाच ह। कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव। ऐणेयमनभिज्ञं च नारीणामार्जवे रतम्
स चेदवतरेद्राजन्विषयं ते महातपाः। सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः। स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु
राजानमागतं ज्ञात्वा प्रतिसंजगृहुः प्रजाः। `स च ता प्रतिजग्राह पितेव हितकृत्सदा
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्। ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः। शास्त्रज्ञैरलमर्थज्ञौर्नीत्यां च परिनिष्ठितैः
ततश्चानाययामास वारमुख्या महीपतिः। वेश्याः सर्वत्रनिष्णातास्ता उवाच स पार्थिवः
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः। लोभयित्वाऽभिविश्चास्य विषयं मम शोभनाः
ता राजभयभीताश्च शापभीताश्च योषितः। अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्। प्रयतिष्ये महाराज तमानेतुं तपोधनम्
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि। ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम्
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः। धनं च प्रददौ भूरि रत्नानि विविधानि च
ततो रूपेण सपन्ना वयसा च महीपते। स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये। संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः। नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः
अतीव रमणीयं तदतीव च मनोहरम्। चक्रे नाव्याश्रमं रम्यमद्भुतोपमदेर्शनम्
ततो निवध्य सा नावमदूरे काश्यपाश्रमात्। चारयामास पुरुषैर्विहारं तस्य वै मुनेः
ततो दुहितरं वेश्यां समाधायेतिकार्यताम्। दृष्ट्वाऽन्तरं काशय्पस्य प्राहिणोद्बुद्धिसंमताम्