एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता। भगीरथमिदं वाक्यं सुप्रीता समभाषत
करिष्यामि माहाराज वचस्ते नात्र संशयः। वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप। अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्
तं तोषय रमहाबाहो तपसा वरदं हरम्। स तु मां प्रच्युतां देवः शिरसा धारयिष्यति
स करिष्यति ते रकामं पितॄणां हितकाम्यया। `तपसाऽऽराधितः शंभुर्भगर्वाँल्लोकभावनः
एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः। कैलासं पर्वतं गत्वा तोषयामास शंकरम्
ततस्तेन समागम्य कालयोगेन केनचित्। `गह्गावतरणं राजन्नयाचत महीपतिः
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप। स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः
एषा देवनदी पुण्या कौशिकी भरतर्षभ। विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः। ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः
तपसो यः प्रभावेन वर्षयामास वासवम्। अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः। विषये लोमपादस्य यश्चकाराद्भुतं महत्
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः। लोमपादो दुहितरं सावित्रीं सविता यथा
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः। विरुद्धयोनिसंसर्गः कथं च तपसा युतः
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः। अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता। लोभयामास या चेतो मृगभूस्य तस्य वै
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः। कथं वै विषये तस्य नावर्षत्पाकशासनः
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्। वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस् चेष्टितम्
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः। अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्। महाह्रदे महातेजा बालः स्थविरसंभतः
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः। दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसंमितः
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम्। अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा। सह तोयेन तृषिता गर्भिणी चाभवत्ततः
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा। देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्। तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः। ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः। तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः। तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप
एतस्मिन्नेव काले तु सखा दशरशस्य वै। कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत्
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः। `दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत'। स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम
पुरोहितापचाराच्च तस्य राज्ञो यदच्छया। न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः। प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते