विद्याधरानुचरितं नानारत्नसमाकुलम्। विषोल्वणैर्भुजङ्गैश्च दीप्ताजिह्वैर्निषेवितम्
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्। क्वचिदञ्जनपुञ्जाभं हिमवनतमुपागमत्
स तु तत्रनरश्रेष्ठस्तपो घोरं समाश्रितः। फलमूलाम्बुसंभक्षः सहस्रपरिवत्सरान्
संवत्सरसहस्रे तु गते दिव्ये महानदी। दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्
किमिच्छसि महाराज म्तः किंच ददानि ते। तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव
एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम्। `तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः'। पितामहा मे वरदे कपिलेन महानदि
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्। षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्
कपिलं देवमासाद्य क्षणेन निधनं गताः। तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि। तावत्तेषां गतिर्नास्ति सागराणां महानदि
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्। तेषामर्थेऽभियाचामि त्वामहं वै महानदि
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता। भगीरथमिदं वाक्यं सुप्रीता समभाषत
करिष्यामि माहाराज वचस्ते नात्र संशयः। वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप। अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्
तं तोषय रमहाबाहो तपसा वरदं हरम्। स तु मां प्रच्युतां देवः शिरसा धारयिष्यति
स करिष्यति ते रकामं पितॄणां हितकाम्यया। `तपसाऽऽराधितः शंभुर्भगर्वाँल्लोकभावनः
एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः। कैलासं पर्वतं गत्वा तोषयामास शंकरम्
ततस्तेन समागम्य कालयोगेन केनचित्। `गह्गावतरणं राजन्नयाचत महीपतिः
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप। स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः
एषा देवनदी पुण्या कौशिकी भरतर्षभ। विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः। ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः
तपसो यः प्रभावेन वर्षयामास वासवम्। अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः। विषये लोमपादस्य यश्चकाराद्भुतं महत्
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः। लोमपादो दुहितरं सावित्रीं सविता यथा
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः। विरुद्धयोनिसंसर्गः कथं च तपसा युतः
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः। अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता। लोभयामास या चेतो मृगभूस्य तस्य वै
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः। कथं वै विषये तस्य नावर्षत्पाकशासनः
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्। वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस् चेष्टितम्
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः। अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्। महाह्रदे महातेजा बालः स्थविरसंभतः