तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्। अंशुमन्तं च संपूज्यसमापयत तं क्रतुम्
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः। पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः। पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्। प्रशशास महाराज यथैवास् पितामहः
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्। तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्। पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत्
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः। न चावतारयामास चेष्टमानो यथाबलम्
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः। भगीरथ इति ख्यातः सत्यवागनसूयकः
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः
तपः सिद्धिसमायोगात्स राजा भरतर्षभ। वनाज्जगाम त्रिदिवं कालयोगेन भारत
स तु राजा महेष्वासश्चक्रवर्ती महारथः। बभूव सर्वलोकस् मनोनयननन्दनः
स शुश्राव महाबाहुः कपिलेन महात्मना। पितॄणआं निधनं घोरमप्राप्तिं त्रिदिवस्य च
स राज्यं सचिवे न्यस्य हृदयेन विदूयता। जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्विषः। सोऽपश्यत नर्रेष्ठ हिमवन्तं नगोत्तमम्
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्। पवनालम्बिभिर्मेघैः परिपिक्तं समन्ततः
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्। गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम्
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः। भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः
मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः। चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्। सारसानां च मधुरैर्व्याहृतैः समलंकृतम्
किन्नरैरप्सरोभिश्च निषेवितशिलातलम्। दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम्
विद्याधरानुचरितं नानारत्नसमाकुलम्। विषोल्वणैर्भुजङ्गैश्च दीप्ताजिह्वैर्निषेवितम्
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्। क्वचिदञ्जनपुञ्जाभं हिमवनतमुपागमत्
स तु तत्रनरश्रेष्ठस्तपो घोरं समाश्रितः। फलमूलाम्बुसंभक्षः सहस्रपरिवत्सरान्
संवत्सरसहस्रे तु गते दिव्ये महानदी। दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्
किमिच्छसि महाराज म्तः किंच ददानि ते। तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव
एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम्। `तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः'। पितामहा मे वरदे कपिलेन महानदि
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्। षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्
कपिलं देवमासाद्य क्षणेन निधनं गताः। तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि। तावत्तेषां गतिर्नास्ति सागराणां महानदि
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्। तेषामर्थेऽभियाचामि त्वामहं वै महानदि