ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत्। उवाच चैनं धर्मात्मा वरदोस्मीति भारत
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्। द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः। ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्। त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः। `शलभत्वं गता ये ते मम क्रोधहुताशने
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति। पावनार्थं सागराणां तोषयित्वा महेश्वरम्
हयं नयस्व भद्रं ते याज्ञिं नरपुङ्गव। यज्ञः समाप्यतां तात सगरस्य महात्मनः
अंशुमानेवमुक्तस्तु कपिलेन महात्मना। आजगाम हयं गृह्य यज्ञवाटं महात्मनः
सोभिवाद्य ततः पादौ सगरस्य महात्मनः। मूर्ध्नि तनाप्युपाघ्रातस्तस्मै सर्वंनय्वेदयत्
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा। तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम्
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्। अंशुमन्तं च संपूज्यसमापयत तं क्रतुम्
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः। पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः। पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्। प्रशशास महाराज यथैवास् पितामहः
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्। तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्। पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत्
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः। न चावतारयामास चेष्टमानो यथाबलम्
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः। भगीरथ इति ख्यातः सत्यवागनसूयकः
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः
तपः सिद्धिसमायोगात्स राजा भरतर्षभ। वनाज्जगाम त्रिदिवं कालयोगेन भारत
स तु राजा महेष्वासश्चक्रवर्ती महारथः। बभूव सर्वलोकस् मनोनयननन्दनः
स शुश्राव महाबाहुः कपिलेन महात्मना। पितॄणआं निधनं घोरमप्राप्तिं त्रिदिवस्य च
स राज्यं सचिवे न्यस्य हृदयेन विदूयता। जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्विषः। सोऽपश्यत नर्रेष्ठ हिमवन्तं नगोत्तमम्
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्। पवनालम्बिभिर्मेघैः परिपिक्तं समन्ततः
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्। गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम्
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः। भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः
मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः। चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्। सारसानां च मधुरैर्व्याहृतैः समलंकृतम्
किन्नरैरप्सरोभिश्च निषेवितशिलातलम्। दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम्