छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः। प्राणिनः समदृश्यन्त शतशोथ सहस्रशः
एवं हि खनतां तेषां समुद्रं वरुणालयम्। व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते। विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः
अपश्यन्त हयं यत्र विचरन्तं महीतले। कपिलं च महात्मानं तेजोराशिमनुत्तमम्
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम्। `दृष्ट्वा हि विस्मिताः सर्वे बभूवुः सगरात्मजाः
*तेतं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः। अनादृत् महात्मानं कपिलं कालचोदिताः
संफुद्धाः संप्रधावन्त वाजिग्रहणकाङ्क्षिणः। ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्। स चक्षुर्विकतं कृत्वा तेजस्तेषु समुत्सृजन्
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्। षष्टिं रतानि सहस्राणि युगपन्मुनिसत्तमः
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः। सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत्
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्। महूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्
स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः। आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत्
अशुमन्तं समाहूय असमञ्जसुतं तदा। पौत्रं भरतशार्दूल इदं वचनमब्रवीत्
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम्। कापिलं तेज आसाद्य मत्कृतेनिधनं गताः
तव चापि पिता तात परित्यक्तो मयाऽनघ। धर्मं संरक्षमाणेन पौराणां हितमिच्छता
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्। त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत्। यं शैव्या जनयामास पौराणां स हि दारकान्
क्रीडतः सहसाऽऽसाद्य तत्रतत्र महीपते'। चूडासु क्रोशतो गृह्यनद्यां चिक्षेप दुर्बलान्
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः। सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात्। असमञ्जभयाद्धोरात्ततो नस्त्रातुनर्हसि
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः। मुहूर्तं विमना भूत्वासचिवानिदमब्रवीत्
असमञ्ज पुरादद्य सुतो मे विप्रवास्यताम्। यदि वो मत्प्रियं कार्यमेतच्छीध्रं विधीयताम्
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप। यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना। पौराणां हितकामेन सगरेण विवासितः
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि। तत्ते सर्वंप्रवक्ष्यामि कीर्त्यमानं निबोध मे
पितुश् तेऽहंत्यागेन पुत्राणां निधनेन च। अलाभेन तथाऽश्वस् परितप्यामि पुत्रक
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्। हयस्यानयनात्पौत्र नरकान्मां समुद्धर
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। एवं स सागरो राजन्पूरितोऽगस्त्यदूपितः ।। जगाम दुःखात्तं देशं यत्रवै दारिता मही
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह। अपश्यच्च महात्मानं कपिलं तुरगं च तम्
स दृष्ट्वा तेजसो राशिं पुराणमृपिसत्तमम्। प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्