नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च। विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम्
कथं निधनमापन्नः पिता मम तथाविधः। आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः
एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम्। ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः। बभूव मृगयाशीलस्तव राजन्पिता सदा
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः
स कदाचिद्वनगतो मृगं विव्याध पत्रिणा। विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्। न चाससाद गहने मृगं नष्टं पिता तव
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः। क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम्। न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्। मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः
न बुबोध च तं राजा मौनव्रतधरं मुनिम्। स तं क्रोधसमाविष्टो धर्षयामास ते पिता
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्। तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम
न चोवाच स मेधावी तमथो साध्वसाधु वा। तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्। मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः
ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह। सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा। मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्। तपस्विनमतीवाथ तं मुनिप्रवरं नृप
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्। तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा
शुभाचारं शुभकथं सुस्थितं तमलोलुपम्। अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। शरण्यं सर्वभूतानां पित्रा विनिकृतं तव
शशापाथ महातेजाः पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव
अनागसि गुरौ यो मे मृतं सर्पवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः। सप्तरात्रादितः पापं पश्य मे तपसो बलम्
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः। शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः। शप्तोऽसि मम पुत्रेण यत्तो भव महीपते
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति। श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्। ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत। तं ददर्शाथ नागेन्द्रस्तक्षकः [https://vedastudy.wixsite.com/puranastudy/%E0%A4%A4%E0%A4%95-%E0%A4%B7%E0%A4%95 तक्षकोपरि टिप्पणी] काश्यपं तदा