तदाऽलाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः। अथान्तरिक्षाच्छुश्राव वाचं गंभीरनिःस्वनाम्
राजन्मा साहसंकार्षीः पुत्रान्न त्यक्तुमर्हसि। अलाबुमध्यान्निष्कृष्य वीजं यत्नेन गोप्यताम्
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः। ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव
महादेवेन दिष्टं ते पुत्रजन्म नराधिप। अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमः। यथोक्तं तच्चराकाथ श्रद्दधद्भरतर्षभ
[एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः। घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः
धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः। ततः कालेन महता समुत्तस्थुर्महाबलाः ।।]
षष्टिः पुत्रसहस्रणि तस्याप्रतिमतेजसः। रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः। बहुत्वाच्चावजानन्तः सर्वाल्लोँकान्सहामरान्
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्। सर्वाणि चैव भूतानि शूरा समरशालिनः
वध्यमानास्तदा लोकाः सागरैर्मन्दबुद्धिभिः। ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः
तानुवाच महाभागः सर्वलोकपितामहः। गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम्
नातिदीर्घेण कालेन सागराणां क्षयो महान्। विष्यति महाघोरः स्वकृतैः कर्मभिः सुराः
एवमुक्तास्तु ते देवा लोकाश् मनुजेश्वर। पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्
ततः काले बहुतिथे व्यतीते भरतर्षभ। दीक्षितः सगरो राजा हयमेधेन वीर्यवान्
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः। `सर्वैरेव महोत्साहैः स्वच्छन्दप्रचरो नृप
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्। रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्। आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्। तेनोक्ता दिक्षु सर्वासु पुत्रा मार्गत वाजिनम्
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्। अमार्गन्त महाराज सर्वंच पृथिवीतलम्
ततस्ते सागराः सर्वे समुपेत्य परस्परम्। नाध्यगच्छन्त तुरगमश्वहर्तारमेव च
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः
ससमुद्रवनद्वीपा सनदीनदकन्दरा। सपर्वतवनोद्देशा निखिलेन मही नृप
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव। न चाश्वमधिगच्छामो नाश्वहर्तारमेव च
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्चितः। उवाच वचनं सर्वांस्तदा दैववशान्नृप
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्। याज्ञीयं तं विनाह्यश्वं नागन्तव्यं हि पुत्रकाः
प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः। भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः
अथापश्यन्त ते वीराः पृथिवीमवदारिताम्। `समुद्रे पृथिवीपाल पदं मार्गं च वाजिनः
समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः। कुद्दालैर्मुसलैश्चैव समुद्रं यत्नमास्थिताः
स खन्यमानः सहितैः सागरैर्वरुणालयः। अगच्छत्परमामार्तिं दीर्यमाणः समन्ततः
असुरोरगरक्षांसि सत्वानि विविधानि च। आर्तनादमकुर्वन्त वध्यमानानि सागरैः