निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुह्गवम्। तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन्
त्वत्प्रसादान्महाबाहो लोकैः प्राप्तं महत्सुखम्। त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः
पूरस्व महाबाहो समुद्रं लोकभावन। यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः। `तांस्तदा सहितान्देवानगस्त्यःसपुरन्दरान्
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम्। पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः
केतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः। विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः
परस्परमनुज्ञाप्यप्रणम्य मुनिपुङ्गवम्। प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम्
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम्। पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः
ते धातारमुपागम्य त्रिदशाः सह विष्णुना। ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम्
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः। `निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्। महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः
ज्ञातींश्च कारणं कृत्वा महाराजो भगीथः। `पूरयिष्यति तोयौघैः समुद्रं निधिमम्भसाम्
पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः। कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम्
कथं वै ज्ञातयोब्रह्मन्कारणं चात्र किं मुने। कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम्
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना। कथयामास माहात्म्यं सगरस्य महात्मनः
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः। रूपसत्वबलोपेतः स चापुत्रः प्रतापवान्
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत। वशे च कृत्वा राजन्यान्स्वराज्यमनुशिष्टवान्
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते। वैदर्भी भरतश्रेष्ठ शैव्या च भरतर्षभ
सपुत्रकामो नृपतिस्तप्यते स्म महत्तपः। पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः
स तप्यमानः सुमहत्तपोयोगसमन्वितः। आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम्
शंकरं भवमीशानं पिनाकिं शूलपाणिनम्। त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम्
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः। प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम्। यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम्
षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः। एकस्यां संभविष्यन्ति पत्न्यां नरवरोत्तम
ते चैवसर्वे सहिताः क्षयं यास्यन्ति पार्थिव। एको वंशधरः शूर एकस्यां संभविष्यति
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत। स चापि सगरो राजा जगाम स्वं निवेशनम्
पत्नीभ्यां सहितस्तत्र होऽतिहृष्टमनास्तदा। `कालं शंभुवरप्राप्तं प्रतीक्षन्सगरोऽनयत्
तस्य तेमनुजश्रेष्ठ भार्ये कललोचने। वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत। शैव्या च सुषुवे पुत्रं कुमारं देवरूपिणम्