अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम्। अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुः सहिताः सुरास्ते
सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा। शैलराजो वृणोत्येप विन्ध्यः क्रोधवशानुगः
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम। ऋते त्वां हि महाभाग तस्मादेनं निवारय
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्। सोभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम। दक्षिणामभिगन्तास्मि दिशे कार्येण केनचित्
यावदागमनं मह्यं तावत्त्वं प्रतिपालय। निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः
एवं स समयं कृत्वाविन्ध्येनामित्रकर्शन। अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते
विन्ध्योऽपितद्भयाद्राजन्कुञ्चिताङ्गो न वर्धते। अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः। अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्। किमर्थमभियाता स्थ वरं मत्तः कमिच्छथ
एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन्। `सर्वे प्राञ्जलयो भूत्वा पुरन्दरपुरोगमाः
एवं त्वयोच्छाम कृतं हि कार्यं महार्णवं पीयमानं महात्मन्। ततो वधिष्याम सहानुबन्धा- न्कालोपसृष्टान्सुरविद्विषस्तान्
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्। करिष्ये भवतां कामं लोकानां च महत्सुखम्
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितांपतिम्। ऋषिभिश्च तपःसिद्धै सार्धं देवैश्च सुव्रत
मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा। अनुजग्मुर्महात्मानं द्रष्टुकानास्तदद्भुतम्
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिःखनम्। नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च। तानाग्राहसमाकीर्णं नानाद्विजगणान्वितम्
अगस्त्यसहिता देवाः सगन्धर्वमहारगाः। ऋषयश्च महाभागाः समासेदुर्महोदधिम्
समुद्रं स समासाद्य वारुणिर्भगवानृषिः। उवाच सहितान्देवानृषींश्चैव समागतान्
एष लोकहितार्थं वै पिबामि वरुणालयम्। भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः। समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः
पीयमानं समुद्रं तं दृष्ट्वा सेन्द्रास्तदाऽमराः। विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन्
त्वं नस्त्राता विधाता च लोकानां लोकभावन। त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत्
स पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः। दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार
दृष्ट्वा कृतंनिःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः। ्रगृह्य दिव्यानिवरायुधानि तान्दानवाञ्जघ्रुरदीनसत्वाः
ते वध्यमानास्त्रिदशैर्महात्मभि- र्महाबलैर्वेगिभिरुन्नदद्भिः। न सेहिरेवेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः। रचक्रु सुतुमुलं युद्धं मुहूर्तमिव भारत
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः। यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः
तेहेमनिष्काभरणाः कुण्डलाङ्गदधारिणः। निहता बह्वशोभन्त पुष्पिता इव किंशुकाः
हतशेषास्ततः केचित्कालेया मनुजोत्तम। विदार्य वसुधां देवीं पातालतलमास्थिताः