एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः। उवाच परमप्रीतस्त्रिदशानर्थवद्वचः
विदितं मे सुराः सर्वे दानवानां विवेष्टितम्। मनुष्यादेश्च निधनं कालेयैः कालचोदितैः
क्षयस्तेपामनुप्राप्तः कालेनोपहताश्च ये। उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे
अगस्त्य इतिविग्व्यातो वारुणिः सुसमाहितः। तमुपागम्य सहिता इममर्थं प्रयाचत
स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम्'। अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोपणे
अन्यथा हि न शक्यास्ते विना सागरशोपणम्। समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः। परमेष्ठिनमाज्ञाप्यअगस्त्यस्याश्रमं ययुः
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्। उपास्यमानमृपिभिर्देवैरिव पितामहम्
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्। आश्रमश्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः
नहुपेणाभितप्तानां त्वं लोकानां गतिः पुरा। भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः
क्रोधात्प्रवृद्धस्तरणं भास्करस्य नभोगतः। वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते
तमसा चावृतेलोके मृत्युनाऽभ्यर्दिताः प्रजाः। त्वामेव नाथमासाद्य निर्वृतिं परमां गताः
अस्माकं भयभीतानां नित्यशो भगवान्गतिः। ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः। एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने
अद्रिराजं महाघोरं रमेरुं कनकपर्वतम्। उदयास्तमने भानुः प्रदक्षिणमवर्तत
तं तु दृष्ट्वा तथा विन्ध्य शैलः सूर्यमथाब्रवीत्। यथा हि मेरुर्भवता नित्यशः परिगम्यते
प्रदक्षिणश्च क्रियते मामेवं करु भास्कर। एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभापत
नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम्। एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाऽचलः। सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप
ततो देवाः सहिताः सर्व एव। सेन्द्राः समागम्य महाद्रिराजम्। निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार
अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम्। अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुः सहिताः सुरास्ते
सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा। शैलराजो वृणोत्येप विन्ध्यः क्रोधवशानुगः
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम। ऋते त्वां हि महाभाग तस्मादेनं निवारय
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्। सोभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम। दक्षिणामभिगन्तास्मि दिशे कार्येण केनचित्
यावदागमनं मह्यं तावत्त्वं प्रतिपालय। निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः
एवं स समयं कृत्वाविन्ध्येनामित्रकर्शन। अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते
विन्ध्योऽपितद्भयाद्राजन्कुञ्चिताङ्गो न वर्धते। अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः। अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्। किमर्थमभियाता स्थ वरं मत्तः कमिच्छथ