शरण्यं शरणं देवं नारायणमजं विभुम्। तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम्। ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम्
त्वंनः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो। त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति। `त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण। वाराहं वपुराश्रित्यजगदर्थे समुद्धृता
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः
एवमादीनि कर्माणि येषां संख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्। `शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः। ता भाविता भावयनति हव्यकव्यैर्दिवौकसः
लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः। त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः
इदं च समनुप्राप्तं लोकानां भयमुत्तमम्। न च जानीम केनेति रात्रौ वध्यन्ति ब्राह्मणाः
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति। तत पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते। विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम्। भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः
कालेया इति विख्याता गणाः परमदारुणाः। तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम्
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता। जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्। उत्सादार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह
न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते। समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम्
एतच्छ्रुत्वा वचो देवा विष्णुना समुदीरितम्। विष्णुमेव पुरस्कृत्यब्रह्माणं समुपस्थिताः
ततस्ते प्रणता भूत्वा तमेवार्धं न्यवेदयन्। सर्वलोकविनाशार्थं कालेया कृतनिश्चयाः
एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः। उवाच परमप्रीतस्त्रिदशानर्थवद्वचः
विदितं मे सुराः सर्वे दानवानां विवेष्टितम्। मनुष्यादेश्च निधनं कालेयैः कालचोदितैः
क्षयस्तेपामनुप्राप्तः कालेनोपहताश्च ये। उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे
अगस्त्य इतिविग्व्यातो वारुणिः सुसमाहितः। तमुपागम्य सहिता इममर्थं प्रयाचत
स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम्'। अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोपणे
अन्यथा हि न शक्यास्ते विना सागरशोपणम्। समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः। परमेष्ठिनमाज्ञाप्यअगस्त्यस्याश्रमं ययुः
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्। उपास्यमानमृपिभिर्देवैरिव पितामहम्
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्। आश्रमश्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः
नहुपेणाभितप्तानां त्वं लोकानां गतिः पुरा। भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः