एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः। दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म
समुद्रं ते समाश्रित्य वरुणं निधमम्भसः। कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्। आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः। अशीतिः शतमष्टौ च नव चान्ये तपस्विनः
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्। फलमूलाशनानां हि मुनीनां भक्षितं शतम्
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा। `कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान्
भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः। वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा। निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात्। कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून्
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम। एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु
क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम्
प्रभाते समदृश्यन्त नियताहारकर्शिताः। महीतलस्था मुनयः शरीरैर्गतजीवितैः
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः। आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः
लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च। विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता
निःस्वाध्यायवपट्कारं नष्टयज्ञोत्सवक्रियम्। जगदासीन्निरुत्साहं कालेयभयपीडितम्
एवं संक्षीयमाणाश्च मानवा मनुजेश्वर। आत्मत्राणपपा भीताः प्राद्रवन्त दिशो भयात्
केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः। अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन्
केचिदत्रमहेष्वासाः शूराः परमहर्षिताः। मार्गमाणआः परं यत्नं दानवानां प्रचक्रिरे
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्। श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये। आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे
शरण्यं शरणं देवं नारायणमजं विभुम्। तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम्। ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम्
त्वंनः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो। त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति। `त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण। वाराहं वपुराश्रित्यजगदर्थे समुद्धृता
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः
एवमादीनि कर्माणि येषां संख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्। `शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः। ता भाविता भावयनति हव्यकव्यैर्दिवौकसः
लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः। त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः