ततो युद्धं समभवद्देवानां दानवैः सह। मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्
उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः। आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम्
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम्। तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः। त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः
तेषां वेगवतां वेगं सहितानां प्रधावताम्। न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात्
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः। वृत्रे विवर्धमाने च कश्मलं महदाविशत्
तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम्
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन्
विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः। स्वं स्वंतेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः
स समाप्यायितः शक्रो विष्णुना दैवतैः सह। ऋषिभिश्च महाभागैर्बलवान्समपद्यत
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान्। तस् प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम्
ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम्। भये निमग्नस्त्वरितो मुमोच वज्रं महत्तस्य वधाय राजन्
स चक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी। यथा महाशैलवरः पुरस्ता- त्स मन्दरो विष्णुकराद्विमुक्तः
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम्। वज्रं न मेने स्वकराद्विमुक्तं वृत्रं भयाच्चापि हतं न मेने
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चन्द्रमभिष्टुवन्तः। `वृत्रं हतं संददृशुः पृथिव्यां वज्राहतं शैलमिवावदीर्णम्
सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्। ते वध्यमानास्त्रिदशैः समेतैः समुद्रमेवाविविशुर्भयार्ताः
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च। तदा स्म मन्त्रं सहिताः प्रचक्रु- स्त्रैलोक्यनाशार्थमभिप्रयत्नात्
तत्रस्म केचिन्मतिनिश्चयज्ञा- स्तांस्तानुपयानुपवर्णयन्ति। तेषां तु तत्रक्रमकालयोगा- द्धोरा मतिश्चिन्तयतां बभूव
ये सन्ति विद्यातपसोपपन्ना- स्तेषां विनाशः प्रथमं तु कार्यः। लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय
येसन्ति केचिच्च वसुंधरायां तपस्विनो धर्मविदश् तज्ज्ञाः। तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम्
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः। दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म
समुद्रं ते समाश्रित्य वरुणं निधमम्भसः। कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्। आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः। अशीतिः शतमष्टौ च नव चान्ये तपस्विनः
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्। फलमूलाशनानां हि मुनीनां भक्षितं शतम्
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा। `कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान्
भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः। वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा। निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात्। कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून्
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम। एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु
क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम्