तं गत्वा सहिताः सर्वेवरं वै संप्रयाचत। स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः। स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस् हिताय वै
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति। तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम्
महच्छत्रुहणं घोरं ष़डश्चं भीमनिःस्वनम्। तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्। एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः। सरस्वत्याः परे पारे नानाद्रुमलतावृतम्
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव। पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम्
महिषैश्च वराहैश्च सृमरैश्चमरैरपि। तत्र तत्रानुचरितं शार्दूलभयवर्जितैः
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः। सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम्
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्। अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्। त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्। जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम्
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च। अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना
ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच। करोमि यद्वो हितमद्य देवाः स्वं चापि देहंस्वयमुत्सृजामि
स एवमुक्त्वा द्विपदांवरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज। ततः सुरास्ते जगृहुः परासो- रस्थीनि तस्याथ यथोपदेशम्
प्रहृष्टरूपाश्च जयाय देवा- स्त्वष्टारमागम् तमर्थमूचुः। त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्
चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः। अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम्
ततो हतारिः सगणः सुखं वै प्रशाधिकृत्स्नं त्रिदिवं दिविष्ठः। त्वष्ट्रा तथोक्तस्तु पुरंदरस्त- द्वज्रं प्रहृष्टः प्रयतो ह्यगृह्नात्
ततः स वज्री बलभिद्दैवतैरभिरक्षितः। आससाद ततो वृत्रं स्थितमावृत्य रोदसी
कालकेयैर्महाकायै समन्तादभिरक्षितम्। समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः
ततो युद्धं समभवद्देवानां दानवैः सह। मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्
उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः। आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम्
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम्। तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः। त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः
तेषां वेगवतां वेगं सहितानां प्रधावताम्। न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात्
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः। वृत्रे विवर्धमाने च कश्मलं महदाविशत्
तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम्
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन्
विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः। स्वं स्वंतेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः
स समाप्यायितः शक्रो विष्णुना दैवतैः सह। ऋषिभिश्च महाभागैर्बलवान्समपद्यत