इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि। नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु। इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम्
तमेवं वादिनं तत्र रामो वचनमब्रवीत्। अलं वै व्यपदेशेन धनुरायच्छ राघव
ततो जग्राह रोषेण क्षत्रियर्षभमूदनम्। रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम्
धनुरारोपयामास सलील इव भारत। ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान्। तस्य शब्दस् भूतानि वित्रसन्त्यशनेरिव
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा। इदमारोपितं ब्र्हमन्किमन्यत्करवाणि ते
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः। शरमाकर्णदेशान्तमयमाकृष्यतामिति
एतच्छ्रुत्वाऽब्रवीद्रामः प्रदीप्त इव मन्युना। श्रूयते क्षम्यते चैव दर्पपूर्णोसि भार्गव
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः। पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम्। पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम्
ततो रामशरीरे वै रामः पश्यति भार्गवः। आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान्
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा। गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च
ऋषयो वालखिल्याश्च ब्र्हमभूताः सनातनाः। देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः। चेतोमन्ति च सामानि धनुर्वेदश्च भारत। मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह। शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत
पांसुवर्षेण महता मेघवर्षैश्च भूतलम्। भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि
स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम्। आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम्। रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम्
विष्णुना सोभ्यनुज्ञातो महेन्द्रमगमत्पुनः। भीतस्तु तत्रन्यवसद्ब्रीडितस्तु महातपाः
ततः संवत्सरेऽतीते हृतौजसमवस्थितम्। निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन्
न वै सम्यगिदं पुत्र विष्णुमासाद्य वैकृतम्। स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा
गच्छ पुत्रनदीं पुण्यां वधूसरकृताह्वयाम्। तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि
दीप्तोदं नाम तत्तीर्थं यत्रते प्रतितामहः। भृगुर्देवयुगे राम तप्तवानुत्तमं तपः
तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः। प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन
एतदीदृशकं तात रामेणाक्लिष्टकर्मणा। प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः। कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजात्तम
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्। अगस्त्यस्य महाराज प्रभावममितौजसः
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः। कालकेया इतिख्याता गणाः परमदारुणाः
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः। समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान्
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा। पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह। विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम्
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ। दधीच इतिविख्यातो महानृषिरुदारधीः