इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत। भस्म चक्रे महातेजा हुङ्कारेण महाऽसुरम्
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा। कृतवांश् मुनिः सर्वं लोपामुद्राचिकीर्षितम्
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्। उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने। विचारणामपत्ये तु तव वक्ष्यामि तां शृणु
सहस्रं तेऽस्तु पुत्राणआं शतं वा तत्समं तव। दश वा शततुल्याः स्युरेको वाऽपि सहस्रजित्
सहस्रसंमितः पुत्र एकोप्यस्तु तपोधन। एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः
स तथेति प्रतिज्ञाय तया समगमन्मुनिः। समये समशीलिन्या श्रद्धावान्श्रद्दधानया
तत आधाय गर्भं तमगमद्वनमेव सः। तस्मिन्वनगते गर्भो ववृधे सप्त शारदान्
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः। ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत
साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः। तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः
स बाल एवतेजस्वी पितुस्तस्य निवेशने। इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत्
तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा। एवं स जनयामास भारतापत्यमुत्तमम्। लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान्
अगस्त्यस्याश्रमश्चायमत ऊर्ध्वं विशांपते। ख्यातो भुवि महाराज तेजसा तस्य धीमतः
प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः। एवं विनाशितो राजन्नगस्त्येन महात्मना। तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः
एषा भागीरथी पुण्या देवगन्धर्वसेविता। वातेरिता पताकेव विराजति नभस्तले
प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः। शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव
दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत्। पूर्वं शंभोर्जटाभ्रष्टा समुद्रमहिषी प्रिया। अस्यां नद्यां मुपुण्यायां यथेष्टमवगाह्यताम्
युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम्। भृगोस्तीर्थं महाराज महर्षिगणसेवितम्
यत्रोपस्पृष्टवान्रामो हृतंतेजस्तदाप्तवान्। अत्र त्वंभ्रातृभिः सार्धं कृष्णया चैव पाण्डव
दुर्योधनहृतंतेजः पुनरादातुमर्हसि। कृतवैरेण रामेण यथा कचोपहृतं पुनः
स तत्रभ्रातृभिश्चैव कृष्णया चैव पाण्डवः। स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत
तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ। अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ
अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः। भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो। कथं प्रत्याहृतंचैव एतदाचक्ष्व पृच्छतः
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः। जातो दशरथस्यासीत्पुत्रो रामो महात्मनः
विष्णुः स्वेन शरीरेण रावणस्य वधाय वै। पश्यामस्तमयोध्यायां जातं दाशरथिं ततः
ऋचीकनन्दनो राभो भार्गवो रेणुकासुतः। तस् दाशरथेः श्रुत्वा ररामस्याक्लिष्टकर्मणः
कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः। जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा
तं वै दशरथः श्रुत्वा वियान्तमुपागतम्। प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम्
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम्। प्रहसन्निव कोन्तेय रामो वचनमब्रवीत्
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो। समारोपय यत्नेन यदि शक्नोषि पार्तिव