त्रसदस्युस्तु तान्दृष्ट्वा प्रत्यगृह्णाद्यथाविधि। अभिगम्य महाराज विषयान्ते महामनाः
अर्चयित्वा यथान्यायमैक्ष्वाको राजसत्तमः। समस्तांश्च ततोऽपच्छत्प्रयोजनमुपक्रमे
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते। यथाशक्त्यवीहिंस्यान्यान्संविभागं प्रयच्छ नः
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत्। एतज्ज्ञात्वा ह्युपादद्ध्वं यदत्रव्यतिरिच्यते
तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम्। इदमूचुर्महाराज समवेक्ष्य परस्परम्
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि। तमतिक्रम्य सर्वेऽद्यवयं चार्तामहे वसु
तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम्। ततस्ते सहिता राजन्निल्वलं समुपाद्रवन्
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्। उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत्
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा। सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना तदा
ततो राजर्षयः सर्वे विषण्णा गतचेतसः। वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः। विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम्
धुर्यासनमथासाद्य निषसाद महानृषिः। तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः। `बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्वयम्
भुक्तवत्यसुरोऽह्वानमकरोत्तस्य चेल्वलः। `वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी। तपसा दुर्जयो यावदेष त्वां नातिवर्तते
ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत्। तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः
स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः। एष जीर्णोसि वातापे मया लोकस्य शान्तये
इत्युक्त्वा स्वकराग्रेण उदरं समताडयत्। त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव
ततो वायुः प्रादुरभूदधस्तस्य महात्मनः। शब्देन महता तात गर्जन्निव यथा घनः
वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह। तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः। कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोसुरः
इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम्। प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्। किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा। ईशोस्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम्
एते च नातिधनिनो धनाशा महती मम। यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः
ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत्। दित्सितं यदि वेत्सि त्वंततो दास्यामि ते वसु
गवां दशसहस्राणि राज्ञामेकैकशोऽसुर। तावदेव सुवर्णस्य दित्सितं ते महासुर
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः। मनोजवौ वाजिनौ च दित्सितं ते महासुर
उल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽऽत्थ माम्। सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम्। रथं तु यदवोचो मां नैतं विद्म हिरण्मयम्
न मे वागनृता काचिदुक्तपूर्वा महाऽसुर। विज्ञायतां रथः साधु व्यक्तमस्ति हिरण्मयः
विज्ञायमानः स रथः कौन्तेयासीद्धिरण्मयः'। ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु
विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ। ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति। सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत