प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत। महार्हाण्युत्सृजैतानि वासांस्याभरणानि च
ततः सा दर्शनीयानि महार्हाणि तनूनि च। समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा
ततश्चीराणि जग्राह वल्कलान्यजिनानि च। समानव्रतचर्या च बभूवायतलोचना
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः। उग्रमातिष्ठत तपः सह पत्न्याऽनुकूलया
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा। अगस्त्यश्च परां प्रीतिं भार्यायामगमत्प्रभुः
ततो बहुतिथे काले लोपामुद्रां विशांपते। तपसा द्योतितां स्नातां ददर्श भगवानृषिः
स तस्याः परिचारेण शौचेन च दमेन च। श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी। तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत। पा तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि
यथा पितुर्गृहे विप्र प्रासादे शयनं मम। तथाविधे त्वं शयने मामुपैतुमिहार्हसि
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्। उपसर्तुं यथाकामं दिव्याभरणभूषिता
अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी। नैवापवित्रो विप्रर्षे भूषणोयं कथंचन
न ते धनानि विद्यन्ते लोपामुद्रे तथा मम। यथाविधानि कल्याणि पितुस्तव सुमध्यमे
ईशोसि तपसा सर्वं समाहर्तुं तपोधन। क्षणेन जीवलोके यद्वसु किंचन विद्यते
एवमेतद्यथाऽऽत्थ त्वं तपोव्ययकरं तु तत्। यथा तु मे न नश्येत तपस्तन्मां प्रयोदय
अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन। न चान्यथाऽहमिच्छामि त्वामुपैतुं कथंचन
न चापि धर्ममिच्छामि विलोप्तुं ते कथंचन। एवं तु मे यथाकामं संपादयितुमर्हसि
यद्येष काम सुभगे तव बुद्ध्या विनिश्चितः। हर्तुं गच्छाम्यहं भद्रे चर काममिह स्थिता ।। आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु। श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः
स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम्। विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम्
तस्मै चार्घ्यं थान्यायमानीय पृथिवीपतिः। प्राञ्जलिः प्रयतो भूत्वापप्रच्छागमनेऽर्थिताम्
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते। थाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे
तत आयव्ययौ पूर्णो तस्मै राजा न्यवेदयत्। अतो विद्वन्नुपादत्स्व यदत्रव्यतिरिच्यते
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत
स श्रुतर्वाणमादाय ब्रध्नश्वमगमत्ततः। स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि
तयोरर्ध्यं च पाद्यं च ब्रध्नश्वः प्रत्यवेदयत्। अनुज्ञाप्यच पप्रच्छ प्रयोजनमुपक्रमे। `वद कामं मुनिश्रेष्ठ धन्योस्म्यागमनेन ते
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते। यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत्। अतो ज्ञात्वा तु गृह्णीतं यदत्रव्यतिरिच्यते
तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम्। अगस्त्यश्च श्रुतर्वा च ब्रध्नश्वश्च महीपतिः