मेषरूपी च वातापिः कामरूप्यभवत्क्षणात्। संस्कृत्यतं भोजयति ततो विप्रं जिधांसति
स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्। स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्। तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्
तामिल्वलेन महता स्वरेण गिरमीरिताम्। श्रुत्वाऽतिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः। वातापिः प्रहसन्राजन्निश्चक्राम विशांपते
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः। हिंसयामायस दैतेय इल्वलो दुष्टचेतनः
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु। पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्
सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किंपराः। `किंमर्थं वेह लम्बध्वे गर्ते यूयमधोमुखाः'। संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः। गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्। स्यान्नोस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्
स तानुवाच तेजस्वी सत्यधर्मपरायणः। करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः। आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम्
स तस्य तस् सत्वस्य तत्तदङ्गमनुत्तमम्। संगृह्यतत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्
स तां विदर्भराजाय पुत्रकामाय ताम्यते। निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः
सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा। विभ्राजमाना वपुषा व्यवर्धत शुभानना
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः। प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप। लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः
ववृधे सा महाराज बिभ्रती रूपमुत्तमम्। अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा
तां यौवनस्थां राजेन्द्रशतं कन्याः स्वलंकृताः। दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः
सा स्म दासीशतवृता मध्ये कन्याशतस्य च। आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा
यौवनस्थामपि च तां शीलाचारसमन्विताम्। न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः
सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति। तोषयामास पितरं शीलेन स्वजनं तथा
वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता। मनसा चिन्तयामास कस्मै दद्यामिमांसुताम्
यदात्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति। तदाऽभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम्
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्। वरयेत्वां महीपाल लोपामुद्रां प्रयच्छ मे
एवमुक्तः स मिनिना महीपालो विचेतनः। प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः। महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्। लोपामुद्राऽभिगम्येदं काले वचनमब्रवीत्
न मत्कृते महीपाल पीडामभ्येतुमर्हसि। प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने। लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशांपते