तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः। शमठोऽकथयद्राजन्नाधूर्तरजसं गयम्
आधूर्तरजसः पुत्रो गयो राजर्षिसत्तमः। पुण्यानि तस्य कर्माणि तानि मे शृणु भारत
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः। यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा। व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः
अहन्यहनि चाप्येवं याचतां संप्रदीयते। अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम्
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः। न च प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा। आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम्
यत्रस्म गाथा गायन्ति मनुष्या मरतर्षभ। अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः। तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः
न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे। गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः
कथं तु देवा हविषा गयेन परितर्पिताः। पुन शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित्
सिकता वा यथा लोके यथा वा दिवि तारकाः। यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्। तथा गणयितुं शक्या गययज्ञे न दक्षिणाः
एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः। बभूवुरस्य सरसः समीपे कुरुनन्दन
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः। अगस्त्याश्रममासाद्य दुर्जयायामुवास ह
तत्रैव लोमशं राजा पप्रच्छ वदतांवरः। अगस्त्येनेह वातापिः किमर्थमुपशामितः
आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः। किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः
इल्वलो नाम दैतेय आसीत्कौरवनन्दना। मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः। पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्। चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्
तदाप्रभृतिराजेन्द्र इल्वलो ब्रह्महाऽसुरः। मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः
मेषरूपी च वातापिः कामरूप्यभवत्क्षणात्। संस्कृत्यतं भोजयति ततो विप्रं जिधांसति
स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्। स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्। तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्
तामिल्वलेन महता स्वरेण गिरमीरिताम्। श्रुत्वाऽतिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः। वातापिः प्रहसन्राजन्निश्चक्राम विशांपते
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः। हिंसयामायस दैतेय इल्वलो दुष्टचेतनः
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु। पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्
सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किंपराः। `किंमर्थं वेह लम्बध्वे गर्ते यूयमधोमुखाः'। संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः। गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्। स्यान्नोस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्