तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान्। दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ।। मानाभिभूतानचिराद्विनाशः समपद्यत
निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः। `अधर्मरुचयोराजन्नलक्ष्म्या समधिष्ठिताः
देवास्तु सागरांश्चैव सरितश्च सरांसि च। अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव। प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे
एवमादानवन्तश् निरादानाश्च सर्वशः। तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम्
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः। पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः
यथैव हि नृगो राजा शिविरौशीनरो यथा। भगीरयो वसुमना गयः पूरुः पुरूरवाः
चरमाणास्तपो नित्यंस्पर्शनादम्भसश्च ते। तीर्थामिगमनात्पूता दर्शनाच्च महात्मनाम्
अलभन्त यशः पुण्यं धनानि च विशांपते। तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम्
यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः। मुचुकुन्दोऽथ मांधाता मरुत्तश्च महीपतिः
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्। देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि
धार्तराष्ट्रास्त्वधर्मेण मोहिन च वशीकृताः। नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः
ने तथा सहिता वीरा वसन्तस्तत्रतत्र ह। क्रमेण पृथिवीपाल नैमिषारण्यमागताः
तत्स्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप। कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः। कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत
कालकोट्यां विपप्रस्थे गिरावुष्य च कौरवाः। बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम्
प्रयागे देवयजने देवानां पृथिवीपते। ऊषुगप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम्
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः। विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः। जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्। संतर्पयन्तः सततं वन्येन हविषा द्विजान्
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्। राजर्षिणा पुण्यकृता गयेनानुपमद्युते
नगो गयशिरो यत्र पुण्या चैव महानदी। वानीरमालिनी रम्या नदी पुलिनशोभिता
दिव्यं पवित्रकूटं च पवित्रधरणीधरम्। ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोतुलम्
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति। रउवास च स्वयं तत्र धर्मराजः सनातनः
सर्वासां सरितां चैव समुद्भेदो विशांपते। यत्रसंनिहितो नित्यं महादेवः पिनाकधृक्
परिपूर्णः परंज्योतिः परमात्मा सनातनः। ब्रह्मादिभिरुपास्योऽयं भगवान्परमेश्वरः
तं प्रणम्य महादेवं चतुर्वर्गफलप्रदम्। रसिद्धिक्षेत्रमिदं मत्वासर्वेषांमोक्षकाङ्क्षिणाम्
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे। ऋषियज्ञेन महता यत्राक्षयवटो महान्। अक्षये देवयजने अक्षयं यत्रवै फलम्
ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः। ब्राह्मणास्तत्रशतशः समाजग्मुस्तपोधनाः
चातुर्मास्येनायजन्त आर्षेण विधिना तदा। तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः। कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम्