तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा। अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता। यान्युवाच च देवर्षिर्लोमशः सुमहातपाः
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप। धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः
स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः। भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः। लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम्
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी। द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे
अथ व्यासो महाभागस्तथा पर्वतनारदौ। दाम्यके पाण्डवंद्रष्टुं समाजग्मुर्मनीषिणः
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि। सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन्
युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम्। मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ
शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम्। मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः
मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप। मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः। दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः। कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः
लोमशस्योपसंगृह्य पादौ द्वैपायनस् च। नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च
धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः। मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः
कठिनानि समादाय चीराजिनजटाधराः। अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः। महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः
सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः। प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम। तथाऽस्मि दुःखसंतप्तो यथा नान्यो महीपतिः
परांश्च निर्गुणान्मन्ये न च ध्रमगतानपि। ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन। यदधर्मेण वर्धेयुरधर्मरुचयो जनाः
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति। ततः सपत्नाञ्जयति समूलस्तु विनश्यति
यत्र धर्मेण वर्धन्ते राजानो राजसत्तम। सर्वान्सपत्नान्वाधन्ते राज्यं चैषां विवर्धते
मया हि दृष्टा दैतेया दानवाश्च महीपते। वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो। अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः
तीर्तानि देवा विविशुर्नाविशन्भारतासुराः। तानधर्मकृतो दर्पः पूर्वमेव समाविशत्
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत। क्रोधादहीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत्
तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान्। क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः। दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः