द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन। इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर। मन्वादिभिर्महाराज तीर्थयात्रा भयापहा
नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत्। स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः। विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि
यथा भगीरथो राजा राजानश्च गयादयः। यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्। यन्मां स्मरति देवेशः किं नामाभ्यधिकं ततः
भवता संगमो यस् भ्राता चैव धनंजयः। वासवः स्मरते यस् को नामाभ्यधिकस्ततः
यच्च मां भगवानाह तीर्थानां गमनं प्रति। धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्तदर्शने। तदैव गन्तास्मि तीर्तान्येष मे निश्चयः परः
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत्। लघुर्भव महाराज लघुः स्वैरं गमिष्यसि
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः। ते सर्वे विनिवर्तन्तां ये च मृष्टभुजो द्विजाः
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः। तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः। मया यथोचिताऽऽजीव्यौः संविभक्ताश्च वृत्तिभिः
ये चाप्यनुगताः पौरा राजभक्तिपुरःसराः। धृतराष्ट्रं महाराजमभिगच्छन्तु ते च वै। स दास्यति यथाकालमुचिता यस्य या भृतिः
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः। अस्मत्प्रियहितार्थायपाञ्चाल्यो वः प्रदास्यति
ततो भूयिष्ठशः पौरा गुरौ भारे समाहिते। विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाऽम्बिकासुतः। प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह। लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः। अभिगम्य तदा राजन्निदं वचनमब्रुवन्
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह। देवर्षिणा च सहितो लोमशेन महात्मना
अस्मानपि महाराज नेतुमर्हसि पाण्डव। अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव
श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च। अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर
भवतो भ्रातरः शूरा धनुर्धरवराः सदा। भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत
भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम्। तीर्थानां पृथिवीपाल वनानां च विशांपते
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः। भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत। अष्टकस्य च राजर्षेर्लोमपादस् चैव ह
भरतस्य च वीरस्य सार्वभौमस्य पार्तिव। ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्। गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान्
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम्। `भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप। कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे