संचरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया। गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम्
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम्। शक्रस्यार्धासनगतं तत्र मे विस्मयो महान्
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम्। आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति
सोऽहमभ्यागतः क्षिप्रं दिदृक्षस्त्वां सहानुजम्। वचनात्पुरुहूतस्य पार्थस् च महात्मनः
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन। भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु
यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ। तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत्। अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम्। वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन। अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः
विश्वावसोस्तु तनयाद्गीतं नृत्यं च साम च। वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमात्मवान्। सुखं वसति बीभत्सुरनुजस्यानुजस्तव
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत्। तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे
भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः। ब्रूयाद्युधिष्ठिरं तत्रवचनान्मे द्विजोत्तम
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः। सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः
तपसाऽपि त्वमात्मानं योजय भ्रातृभिः सह। तपसो हि परं नास्ति तपसा विन्दते महत्
अहं च कर्णं जानामि यथावद्भरतर्षभ। सत्यसन्धं महोत्साहं महावीर्यं महाबलम्
महाहवेष्वप्रतिमं महायुद्धविशारदम्। महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम्
महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम्। तथाऽर्जुनमतिस्कन्धं सहजोल्वणपौरुणम्
न स पार्तस्य संग्रामे कलामर्हति षोडशीम्
यच्चापि ते भयं कर्णान्मनसिस्थमरिंदम। तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति। स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम्
यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत। ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर। युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया धिया
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन। श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम्
स भवान्परमं वेद रपावनं पुरुषं प्रति। तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान्
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः। तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत्
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः। रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम्। तथा रक्षस्व कौन्तेयान्राक्षसेभ्यो द्विजोत्तम
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः। त्वयाऽभिगुप्तान्कौन्तेयान्न विवर्तेयुरन्तिकम्
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च। रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वा सह