तत्रैव भरतो राजा चक्रवर्ती महायशाः। विंशतीं सप्त चाष्टौ च हयमेधानुपाहरत्
कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा। अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः
सरस्वती नदी सद्भिः सततं पार्थ पूजिता। वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा
दृषद्वती महापुण्या यत्र रख्याता युधिष्ठिर। न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्योद्विपदांवर। दाल्भ्यघोषश्च दाल्भ्याश् धरणीस्थो महात्मनः
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः। आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप। ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा। विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः
ऋषिर्महान्महाभागो जमदग्निर्महायशाः। पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः
यत्रसर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम्। स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ। इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः। आगम्य सरितो विप्रान्मधुना समतर्पयन्
गन्धर्वयक्षरक्षोबिरप्सरोभिश्च सेवितम्। किरातकिन्नरावासं शैलं शिखरिणांवरम्
बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर। पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम्
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा। पर्वतश्च पुरुर्नाम यत्रयातः पुरूरवाः
भृगुर्यत्रतपस्तेपे महर्षिगणसेविते। राजन्स आश्रमः ख्यातो भृगुतुङ्गो महागिरिः
यः स भूतं भविष्यच्च भवच् भरतर्षभ। नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः
तस्यातियशसः पुण्यां विशालां बदरीमनु। आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः
उष्णतोयवहा गङ्गा शीततोयवहा पुरा। सुवर्णसिकता राजन्विशालां बदरीमनु
ऋषयो यत्रदेवाश्च महाभागा महौजसः। प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम्
यत्रनाराजणो देवः परमात्मा सनातनः। तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च
तत्पुण्यं परमं ब्रह्म तत्तीर्थं त्तपोवनम्। तत्परं परमं देवं भूतानां परमेश्वरम्
शाश्वतं परमं चैव धातारं परमं पदम्। यं विदित्वान शोचन्ति विद्वांसः शास्त्रदृष्टयः
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः। आदिदेवो महायोगी यत्रास्ते मधुसूदनः
पुण्यानामपि तत्पुण्यमत्र ते संशयेस्तु मा। एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते। कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः। ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः। भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि
एवं संभाषमाणे तु धौम्ये कौरवनन्दन। लोमशः स महातेजा ऋषिस्तत्राजगाम ह
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते। उपातिष्ठन्महाभागं दिवि शक्रमिवामराः
समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः। पप्रच्छागमने हेतुमटने च प्रयोजनम्
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः। उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान्